________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७०
चरक-संहिता। [ परिमशनीयेन्द्रियम् युक्त अत्युत्पिण्डिते अतिप्रविष्ट अतिजिह्म अतिविषमे अतिमुक्तबन्धने अतिप्रस्नु ते सततोन्मिषिते निमेषोन्मेषातिप्रवृत्ते विभ्रान्तदृष्टिके विपरीतष्टिके हीनष्टिके नकुलान्धे कपोतान्धे अलातवणे कृष्णनीलपीतश्यावताम्ररितशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वा रयाताम, तदा परासुरिति विद्यात् ॥६॥ __तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न वेदयेयुः, तं परासुरिति विद्यात् । तस्य चेदुदरे सिराः प्रकाशेरन् श्याव
स्वभावाद हीने भवतः सुतरां विकृतियुक्ते, अत्युपिण्डिते अतिशयेन वहिः पिण्डाकारतया निगेते, अतिप्रविष्टे अभ्यन्तरतोऽतिकोटराकारे, अतिजिह्म अतिकुटिले, अतिविषमे चक्षुईयस्यातिवैषम्यं न तुल्यत्वम्, अतिमुक्तबन्धने अत्यथेस्फारिते, अतिप्रस्र ते अत्यर्थं स्रावयुक्ते, सततोमिषिते सर्वदा प्रायेण निमेपरहिते, किंवा निमेषोन्मेषयोरतिप्रवृत्तियुक्ते, विभ्रान्तदृष्टिके इतस्ततो दृष्टियुक्त, विपरीतदृष्टिके विपरीतदृष्टियुक्ते, हीनदृष्टिके दर्शनरहिते, नकुलान्धे कपोतान्धे वा। तद् यथा- “नकुलान्धस्तु रूपाणि दिवा शुक्लानि पश्यति । कपोतान्धस्तु रूपाणि दिवा कृष्णानि पश्यति ॥” अलातवर्ण तप्ताङ्गारवणे। कृष्णादिवैकारिकाणां वर्णानामन्यतमेनातिशयेन प्लुते वा स्यातामेकैकविधे तदायं गतासुः॥६॥
गङ्गाधरः-तस्येत्यादिना केशपरीक्षा। आयम्यमानानि आयतीकृतानि प्रलुच्येरन् न वेदयेयुरुत्पाटने न वेदनावोध गच्छेयुः। तस्य चेदित्यादिना
प्रकृतिहीने विकृतियुक्ते इति सामान्यवचनम्, तस्य विवरणम्-अत्युत्पिण्डिते इत्यादि । अत्युत्पिण्डिते इति अत्यर्थनिर्गते। अतिजिह्म अतिकुटिले, अतिविषमे इति एक संवृतमपरं विस्तृनमिति। निमेषोन्मेषक्रियया अत्यर्थं वर्त्तते इति निमेषोन्मेपातिवृत्त । विपरीतदृष्टिके इति व्यस्तदृष्टिके। किंवा विपरीत दृष्टिके अन्यथाग्राहिणी। हीनदृष्टिके अदूरदर्शिनी, नष्दृष्टिके वा। नकुलान्धकपोतान्धलक्षणग्रस्तः “नकुलान्धस्तु रूपाणि दिवा शुक्लानि पश्यति । कपोतान्धस्तु रूपाणि दिवा कृष्णानि पश्यति ॥" अलातस्तु तप्ताङ्गारः । इह चक्षुतारिष्टाभिधानप्रस्तावादस्पर्शग्राह्यमपि चक्षुपोरलातवर्णत्वादिकमुच्यते ॥ ४-६॥
चक्रपाणिः--- उदरानुगताः शिरास्त्विह स्पर्शनग्राह्या भवन्तीति उक्ताः, तत्प्रसङ्गात् चक्षुद्या!
For Private and Personal Use Only