________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ये अध्यायः ।
इन्द्रियस्थानम् ।
२१६६ वा स्यात्, परासुरयं पुरुषो नचिरात् कालं मरिष्यतीति विद्यात् ॥ ४॥
तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ़नाभ्यंसस्तनमणिक-पशुकाहनुनासिकाकर्णातिव्र - शङ्खार्दानि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्कन्नानि स्युः, परासुरयं पुरुषो नचिरात् कालं मरिष्यतीति विद्यात् ॥ ५॥
तथास्योच्छासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीश्च लक्षयेत् । तस्य चेदुच्छासोऽतिदी? हस्खो वा स्यात्, परासुरिति विद्यात् । तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयाता, परासुरिति विद्यात् । तस्य चेद दन्ताः प्रतिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्। तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्। तस्य चेञ्चक्षुषी प्रकृतिहीने विकृतिशोणिताभ्यां क्षीणं स्यात् । परासुर्गतप्राणः पराशब्दस्य गतार्थखात् । नचिरात् कालमचिरात् कालम् ॥४॥
गङ्गाधरः-अथ तस्यातुरस्य पृथक्वेन एकैकशः परिमृश्यमानानि गुल्फादीनि स्थानेभ्यश्च्युतानि सन्ति स्कन्नानि गतिमन्ति शुष्काणि स्युस्तदायं पुरुषः परासुर्नचिरात् कालं मरिष्यतीति विद्यात् ॥५॥ __ गङ्गाधरः-तथेत्यादि। लक्षयेत् परिमृशेत्। कथमित्यत आहतस्येत्यादि। श्वासपरिमर्शनम्। ततस्तस्येत्यादि। परिमृश्यमाने पाणिना स्पृश्यमाने यदि न स्पन्देयातां तदायं परासुरिति विद्यात् । तस्य चेदित्यादि। पतिकीर्णा मललिप्ताः, श्वेताः श्वेतवर्णाः, जातशर्करा दन्तान्तर्जातशर्करा दृढ़रूपाः । तस्य चेदित्यादिना पक्ष्मणां परीक्षा । जटाबद्धानि त्रिचतुरादिपक्ष्माणि मिलिखा जटाकाराणि । तस्य चेदित्यादि । चक्षुःपरीक्षा । प्रकृतिहीने प्रकृत्याः
चक्रपाणि:--पृष्ठेपिका पृष्ठवंशः। पृथक्त नेति एकत्वेन। मणिकं करबाहुसन्धिः। मन्ये गलपाश्र्वगते धमन्यौ। उच्छासदैर्घ्यहासौ नासाग्रदत्तकरस्पर्शाइपलभ्येते। परिकीर्णा इति मललिताः। श्वेतत्वं चक्षुर्ग्राह्यमपि स्पर्शापरीक्षणीयं दन्तधर्मप्रस्तावादुच्यते। चक्षुषी
२७०
For Private and Personal Use Only