________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६८
चरक-संहिता। परिमर्शनीयमिन्द्रियम् स्तम्भः, नित्योष्मणां शीतभावः, मृदूनां दारुणत्वम्, श्लक्षणानां खरत्वम्, सतामसदभावः, सन्धीनां स्त्र सभ्रशच्यवनानिछ, मांसशोणितयोर्वीतभावः, दारुणत्वम्, स्वेदानुबन्धः, स्तम्भो वा। यच्चान्यदपि किञ्चिदीदृशं विकृतमनिमित्तं स्यात्। इतिलक्षणानां संग्रहः स्पृश्यानां भावानाम् ॥ ३॥
तद् व्यासतोऽनुव्याख्यास्यामः। तस्य चेत् परिमृश्यमानं पृथकत्वेन पादजबोरुस्फिगुदरपार्श्वस्पृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं खिन्नं शीतं प्रस्तब्धं दारुणं वीतमांसशोणितं मानानां शरीरदेशानां नयनहृदयादीनां स्तम्भोऽस्पन्दनम्। नित्योष्मणां मुखाभ्यन्तरनासामूद्धकण्ठहृदयनाभ्यादीनां शीतभावः शीतखम्। मृदूनां शरीरदेशानां दारुणवं कठिनखम्। इलक्ष्णानां शरीरदेशानां जिहादीनां खरवं कर्कशखम् । सतां दृषणादीनां अकस्मादसद्भावो विलयनम्। सन्धीनां संसो नात्यधःपतनं, भ्रशः स्वस्थानादधःपतनं, च्यवनं सन्धीनां स्वस्थानात् विश्लेषः। मांसशोणितयोर्वीतभावः क्षयः नास्तिवमित्यर्थः। दारुणवं कठिनबम् । स्वेदानुबन्धः प्रायेण स्वेदसातत्यम् । स्तम्भो वा स्वेदस्यैव। अनुक्तविकृतिमुपसंहरति—यच्चान्यदित्यादि। अनिमित्तमकस्मादकारणमीदृशं भृशं विकृतम् । इतिलक्षणानाम् इत्येवंप्रकारलक्षणयुक्तानां स्पृश्यानां शरीरभावाणाम् ॥३॥
गङ्गाधरः-तत्परिमर्शनं व्यासतोऽनुव्याख्यास्याम इत्यर्थः। तस्येत्यादि। तस्यातुरस्य पृथक्वेन एकैकशः पादजङ्घादिकं परिमृश्यमानं यदि स्विन्नं धर्मयुक्तं शीतं शीतलं प्रस्तब्धमस्पन्दं दारुणं कठिनं वीतमांसशोणितं मांस
'स्पर्शप्राधान्येनैव' इति करोति, तेन अस्पर्शग्राह्यमपि चक्षुर्लोहितत्वादि रिष्टमिह स्पर्शपरीक्षामध्ये वक्तव्यमिति दर्शयति। अत्र च वृषणादीनां सतामिति ज्ञेयं स्थूलावयवानां रिष्टेऽप्यभावदर्शनात् । भ्रंशोऽपि गमनम्, धाधनन्तु पार्वतो गमनम्। वीतीभावोऽतिक्षीणत्यमिति। लक्षणमनिमिसमिति मरणलक्षणम्। स्पर्शानामिति छेदः ॥ १-३॥
* च्यवनानीत्यत्र धावनानि इति वा पाठः ।
For Private and Personal Use Only