________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः ।
अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ वर्णे खरे च गन्धे च रसे चोक्तं पृथक् पृथक् । लिङ्गं मुमूर्षतां सम्यक स्पर्शेष्वपि निबोधत ॥ २ ॥ स्पर्शप्राधान्येनातुरस्यायुषः प्रमाणावशेषं जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, विमर्शयेद्वान्येन । परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्र बोद्धव्या भवन्ति । तद् यथा - सततं स्पन्दमानानां शरीरदेशानां गङ्गाधरः - अथ उद्देशानुक्रमखाद् गन्धरसपरीक्षानन्तरं स्पर्शपरीक्षार्थं परिमर्शनीयमिन्द्रियं व्याख्यातुमारभते - अथात इत्यादि । परिमर्शनमन्येन स्वेन च पाणिना स्पष्टु' परिमर्शनमधिकृत्य कृतमिन्द्रियमिति परिमर्शनीयम् ॥ १ ॥ गङ्गाधरः- वर्ण इत्यादि । स्पष्टम् ॥ २ ॥
1
गङ्गाधरः -- स्पर्शप्राधान्येनेत्यादि । स्पर्शः स्पर्शनेन्द्रियार्थस्तत्प्राधान्येन चक्षुरादिस्पर्शरूपविशेषेणापि आतुरस्यायुषः प्रमाणावशेषं जिज्ञासुः ज्ञातुमिच्छुर्भिषक् प्रकृतिस्थेन पाणिना न तु विकारयुक्तेन पाणिना, तेन हि सम्यक् स्पर्शो न ज्ञायते, अस्यातुरस्य केवलं कृत्स्नं शरीरं स्पृशेत् । ननु यदङ्गं न स्प्रष्टुं युज्यते, यस्य वा असूय्यैम्पश्यादेः स्पर्शो न युज्यते, भिषजो वा पाणिरप्रकृतिस्थः, तस्य कथं स्पर्शनं स्यादित्यत आह-विमर्शयेद्वान्येनेति । कथं परिमर्शनं स्यादित्यत आह - परीत्यादि । आतुरशरीरं परिमृशता भिषजा वातुरशरीरस्य स्वपाणिना वान्येन वा स्पर्शनेन परीक्षां कुर्व्वता खल्विमे तत्र तत्र शरीरे भावा बोद्धव्या भवन्ति । के ते भावा इत्यत आह-तद्यथेत्यादि । सततं स्पन्दचक्रपाणिः - इन्द्रियार्थानां रिष्टपारिशेष्यात् स्पर्शगतारिष्टाभिधायकं परिमर्शनीयमिन्द्रियमुध्यते । इममेव चाध्यायसम्बन्धं दर्शयन्नाह-वण स्वरे चेत्यादि । स्पर्शेनेति वक्तव्ये, यत् * निबोधत इत्यत्र विधीयते इति पाठान्तरं कचित् ।
1
I
For Private and Personal Use Only