________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६६
चरक-संहिता। { पुष्पितकमिन्द्रियम्
तत्र श्लोकः। यान्येतानि 8 मयोक्तानि लिङ्गानि रसगन्धयोः । पुष्पितस्य नरस्यैतत् फलं मरणमादिशेत् ॥ १० ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने
पुष्पितकमिन्द्रियं नाम द्वितीयोऽध्यायः ॥२॥ वैरस्यमनुमेयम् । अत्यर्थमित्यादि । कालपकस्य जीवितकालपरिणतस्य, अर्थात् आसन्नमृत्युकालस्य । अत्यर्थं रसिकम् अत्यर्थस्वादुरसयुक्तं कायं सर्वशः सर्च थैव भृशमायान्ति आगच्छन्ति न मुश्चन्ति। यदि स पुरुषो मक्षिकापसर्पणार्थ स्नातोऽनु पश्चात् चन्दनादितिक्तद्रवैारवलिप्तो भवति तथापि तस्य तमत्यर्थरसिकखात् कायं भृशं सर्वश आयान्ति न मुश्चन्ति। इत्यनेन कायस्यातिमधुरखमनुमेयम् ॥९॥
गङ्गाधरः-संग्रहार्थं फलवचनाथश्च श्लोकमाह - यान्येतानीत्यादि। मरणमेवैतयोः फलमादिशेत् तुल्यमानमेव एतयोरिति बोध्यम् ॥१०॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्धे इन्द्रिय
स्थानजल्पे पुष्पितकेन्द्रियाध्यायजल्पद्वितीयशाखा ॥२॥ चक्रपाणिः-संग्रहश्लोके सामान्येन पुष्पितस्येतिवचनात् रसरिष्टंऽपि पुष्पितत्वमस्य विवक्षितम् । तेन रसरिष्टे ऽपि संवत्सराभ्यन्तरे मरणमिति फलति ॥ १० ॥ हात महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुवददीपिकायां चरकतात्पर्य्यटीकायाम् इन्द्रियस्थाने पुष्पितकेन्द्रियशारीरं नाम द्वितीयोऽध्यायः ॥२॥
* सामान्येनेति चक्रः।
For Private and Personal Use Only