________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रय अध्यायः
इन्द्रियस्थानम् ।
२१६५ -------------रसज्ञानमतः परम् । आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम् ॥ ८॥ यो रसः प्रकृतिस्थानां नराणां देहसम्भवः । स एषां चरमे काले विकारं भजते द्वयम् ॥ कश्चिदेवास्य वैरस्यमत्यर्थमुपपद्यते। स्वादुत्वमपरश्चापि विपुलं भजते रसः॥ तमनेनानुमानेन विद्याद् विकृतितां गतम् । मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात् ॥ मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह । विरसादपसर्गन्ति जन्तोः कायान्मुमूर्षतः ॥ अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः । अपि स्नातानुलिप्तस्य भृशमायान्ति सव्वशः ॥ ६ ॥
गङ्गाधरः-अतः परमुद्देशक्रमसात् रसज्ञानमाह --आतुराणामित्यादि। आतुराणां शरीरेषु विधिपूर्वकं रसशानं वक्ष्यते ॥ ८॥
गङ्गाधरः-यो रस इत्यादि। यो रसः एषामातुराणां प्रकृतिस्थानाञ्च नराणां चरमे काले मृत्युकाले द्वयं विकारं भजते। किं द्वयं विकारम् इत्यत आह-कश्चिदित्यादि। अस्य कश्चिद्रसोऽत्यर्थ वैरस्यमशुभरसत्रमुपपद्यते प्राप्नोति। अपरश्च कश्चिद्रसो विपुलं स्वादुवं मधुरखं भजते। तमित्यादि । तं द्विविधं विकृतितां गतं रसमनन वक्ष्यमाणमक्षिकादिनानुमानेन विद्यात् । ननु कस्माद्रसो रसनाथोऽनुमानेन वेदितव्य इत्यत आह-मनुष्यो हीत्यादि। अनुमानार्थमाह-मक्षिकाश्चेत्यादि। मुमूर्षतो जन्तोः कायात् विरसान्मक्षिकादयोऽपसन्ति अपगच्छन्ति न तु तत्र काये चरन्ति । इत्यनेन कायस्य
चक्रपाणिः-वैरस्थमिति अनिष्टरसताम् । कथमित्याक्षेपे, तेन न कथमपीत्यर्थः । अवाप्नुयादिति जानीयात्। अत्यर्थरसिकमिति अतिस्वादरसम्। कालपकस्येति पूर्णकालस्य । सर्वश इति सर्वगात्रेषु ॥ १९॥
For Private and Personal Use Only