________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। पुष्पितकमिन्द्रियम् ये चान्ये विविधात्मानो गन्धा विविधयोनयः। तेऽयनेनानुमानेन ज्ञया विकृतितां गताः॥ इदश्चाप्यतिदेशार्थ लक्षणं गन्धसंश्रयम् । वक्ष्यामो यदभिज्ञाय भिषङ मरणमादिशेत् ॥ ६॥ वियोनिर्विदुरो गन्धो यस्य गात्रे तु जायते। इष्टो वा यदि वानिष्टो न स जीवति तां समाम् । एतावद् गन्धविज्ञानम्----------------- ॥ ७॥
गन्धोऽशुभः। ये चान्ये इत्यनेनानुक्तशुभाशुभगन्धसंग्रहः। विविधात्मान इति अकृत्रिमा नानागन्धाः। विविधयोनय इति नानाद्रव्यकृतसंयोगतः ये गन्धाः शुभाः किंवा अशुभाः। तथा च यस्य काये चन्दनादिशुभगन्धद्रव्यैराप्लुतेऽकारणतस्तत्तच्छभगन्धा न स्फुरन्तोऽशुभाः मूत्रपुरीषादिगन्धा भान्ति सोऽपि पुष्पितः संवत्सराद देखें जहाति। एवं यस्य चन्दनादिशुभगन्धद्रव्यविनाप्लुते कायेऽनिमित्ताश्च यदि शुभगन्धा भान्ति सोऽपि पुष्पितः सम्बत्सराद देहं जहातीति भावः। एवं यस्य मूत्राद्यशुभगन्धद्रव्यैरनाप्लुते कायेऽनिमित्ता मूत्रपुरीषादिका अशुभा गन्धा भान्ति सोऽपि पुष्पितः सम्बत्सराद देहं जहातीति भावः। ननु किं चन्दनादिशुभाशुभगन्धा एव नान्ये इत्यत आह–इदञ्चेत्यादि। इदश्चातिदेशार्थ न तु नियमार्थ, तेन शुभाशुभगन्धं यावद द्रव्यं बोध्यम् ॥६॥
गङ्गाधरः-वियोनिरित्यादि। विगता नास्ति योनिरुत्पत्तिहेतुयेस्य स वियोनिरनिमित्तो गन्धः, विदुरः स्थायी गन्धः, विद सत्तायामित्यस्य कृदन्तले रूपम्। तथा च यस्य गात्रेनिमित्तो निरन्तरं विद्यमान इष्टो वाप्यनिष्टो वा गन्धो जायते स पुष्पितस्तां प्रवर्त्तमानां समां संवत्सरं न च जीवति। इति गन्धपरीक्षा॥७॥ व्यतिरिक्तानि गवादीनि मृतानि । कुणपानि मानुषशरीराणि। "विविधयोनयः” इत्यनेम नानाद्रव्यकृतधूपवादिगन्धान् ग्राहयति। विविधात्मान इत्यनेन तु अकृत्रिमनानाद्रव्यगन्धा उच्यन्ते। अनेनानुमानेनेति "आप्लुते" इत्यादिग्रन्थोक्तरिष्टानुसारेण। अतिदेशार्थमिति अनुक्तज्ञानार्थम् । वियोनिरिति निर्हेतुकः । विदूर इति स्थायी ॥५-७ ॥
For Private and Personal Use Only