________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य भध्यायः
इन्द्रियस्थानम्।
२१६३ एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत् । इष्टर्वा यदि वानिष्टैः स च पुष्पित उच्यते ॥ समासेनाशुभान् गन्धानेकत्वेनाथ वा पुनः । आजिद यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक् ॥ ५ ॥ आप्लुतानाप्लुते छ काये यस्य गन्धाः शुभाशुभाः। व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते ॥ तद् यथा चन्दनं कुष्ठं तगरागुरुणो मधु । माल्यं मूत्रपुरीषे वाऽमृतानि + कुणपानि वा ॥
गङ्गाधरः एवामत्याद। एवं यदेकशः पुष्पैरिष्टैमनोश रनिष्टैः दुर्गन्धिभिर्वा समो गन्धो यस्य भवेत्, सोऽपि पुष्पित उच्यते, संवत्सराद देह जहाति। इति पुष्पितस्य जीवितसंख्यामानम् । समासेनेत्यादि । यस्य गात्रे अशुभान गन्धान समासेन बहशुभगन्धमेलकतया एकीभावेन वैद्य आजि व तमपि भिषक पुष्पितं विद्यात् । संवत्सरात् देहं स जहाति । अथवा पुनः । अशुभान गन्धान एकैकशो न तु मिश्रान् यस्य गात्रेषु भिषगाजिघ्र त् तमपि पुष्पितं नरं विद्यात् । सोऽपि संवत्सराद देह जहातीति ॥५॥
गङ्गाधरः-आप्लुतेत्यादि। यस्य काये तैलचन्दनागुरुकुङ्कु मादिभिरशुभशुभगन्धद्रव्यैराप्लुने वानाप्लुते वा व्यत्यासेनानिमित्ताः अकारणतो गन्धाः शुभाशुभाः स्युः स च पुष्पित उच्यते संवत्सराद देहश्च जहातीति । एतद्भाष्येण विवृणोति--तद् यथेत्यादि । चन्दनादिगन्धः शुभः । मूत्रपुरीषादि
चक्रपाणिः-एवमिति दिवानिशम्। समासेनेत्यादि । पुष्पव्यतिरिक्तशवाद्यशुभगन्धयोगेनापि 'पुष्पितत्वं' परिभाष्यते इति शेषः। समासेनेति मेलकेन। आप्लुतेत्यादौ आप्लुतानाप्लुतत्वविशेषव्यत्यासश्च शुभाशुभगन्धानाञ्च ज्ञेयः। पुष्पितत्वाभिधानञ्च यत्र यत्र, तत्र तत्र संवत्सरान्तं जीवितं पूर्ववचनाद् भवति। तद् यथेत्यादिना शुभाशुभद्रव्याण्याह-मृतानीति मानुष
* "आप्लुतानाप्लुता इति चक्रपाठः।
+ “च मृतानि" इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only