________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः । सूत्रस्थानम् ।
९८५ सद्यो व्यापादयति। तदेव भस्मपांशुपरिध्वस्तं सक्षौद्र मरणाय। मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय। मधु चोष्णमुष्णात्तस्य च मधु मरणाय, मधुसर्पिषी समधृते, मधु वारि चान्तरीक्ष समवृतं, मधु पुष्करवीजं, मधु पीत्वोष्णोदकं, भल्लातकोणोइक, तक्रसिद्धः कम्पिल्लकः, पर्युषिता काकमाची, अङ्गारशूल्यो भासश्चति विरुद्धानि इत्येतद् यथाप्रश्नमभिनिर्दिष्टं भवतीति ॥७१॥ दार्च निसिद्धा एरण्डतैलसिद्धा वा नायात्” इति । हारीतकः पुनर्हारिद्रपक्षिविशेषस्तस्य मांसं हरिद्रानालादिकृताग्निप्लुष्टम्। पूर्व सापतैलभृष्टं विरुद्धमुक्तमिति न पुनरुक्तम् । तदेव हारीतकमांसं हरिद्राग्निप्लुष्टं भस्मपांशुपरिध्वस्तं क्षौद्रयुक्तं मरणाय भवति । मत्स्यनिस्तालनं मत्स्यभजने क्रियमाणे निर्गतं यन्मत्स्यस्यैव तैलं तेन पकाः पिप्पल्यो भक्षिता मरणाय स्युः। तथा चोक्तं जतूकणे-“मत्स्यवसासिद्धाः पिप्पल्यः” इति। तथाच काकमाची मत्स्यनिस्तालनसिद्धा मरणाय। तथाच सुश्रुते-“मत्स्यपरिपचने सिद्धां शृङ्गवेरपरिपचने वा सिद्धां काकमाची नाद्यात्” इति। तथाच मधु मत्स्यनिस्तालनयुक्तं मरणाय भवति। सुश्रते तु “गुड़ेन काकमाची मधुना मूलकं गुड़ेन वाराहं मधुना च सह विरुद्धम्" इति । मधु चोष्णं कृतं मरणाय । अग्न्यातपादिना तूष्णेनातस्य नरस्य मधु पीतं मरणाय भवति । समध्ते समानमान मिते मधुसर्पिपी मिलिते भक्षिते मरणाय भवतः। समधृतं मधु चान्तरीक्षजलश्च मिश्रितं पीतं मरणाय भवति। मधुपुष्करवीजं पद्मवीजसहितं मधु पीतं मरणाय। मधु पीत्वोष्णजलं पीतं पीत्वा चोष्णजलं मधु पीतं मरणाय भवतीति । “मधु चोष्णोदकानुपानम्” इति सुश्रतः। भल्लातकोष्णोदकं संयुक्तं मरणाय। तक्रसिद्वः काम्पिल्लो मरणाय, पय्यु पिता पका काकमाची विरुद्धा, तथा कुल्माषैश्च बलाका विरुद्वा ; एरण्डसोसकावसक्तमिति, सीसको हि भटित्रकरणकाष्ठमुच्यते ; तदेवेति हारिद्रकमांसम् ; मस्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मस्यनिस्तालनम्, किंवा निस्तालनं वसा, जतूकर्णेऽप्युक्तम्-“मत्स्यवसासिद्धाः पिप्पल्यः' इति ; काकमाची मधु चेति संयोगविरुद्धम् ; भासो गोष्ठकुक्कटः ।। ७०११॥
१२४
For Private and Personal Use Only