________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
चरक-संहिता। आत्रेयभद्रकाप्यीयः क्षोड़पनसनारिकेलदाडिमामलकान्येवंप्रकाराणि चान्यानि सर्वश्चाम्लं द्रवमद्रवञ्च पयसा सह विरुद्धम्, तथा कङ्ग वरक. मुकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः ॥ ७०॥
पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातश्चातिकोपयति। हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तश्चातिकोपयति । पायसो मन्थानुपानो विरुद्धः श्लेष्माणश्चातिकोपयति, उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य । बलाका वारुण्या सह कुल्मारैरपि विरुद्धा, सैव शूकरवसाभृष्टा सद्यो व्यापादयति। मथरमांसम् एरण्डसोसकाग्निप्लुष्टमेरण्ड तैलयुक्तं सद्यो व्यापादयति। हारीतकमांसं हरिद्राग्निप्लुष्टं आक्षोड़ः आखरोटः। तथेत्यादि। कङ्गः कामनिस्तृणधान्यभेदः । वरको वनकोद्रवः॥७०॥ ___ गङ्गाधरः-पद्मोत्तरिकेत्यादि। पद्मोत्तरिकाशाकं कुसुम्भशाकं, शार्करो मैरेयः शकेराकृतो मेरेयः, मधु चेति त्रयं सहोपयुक्तम्। हारिद्रकः पक्षिविशेषः। पायस इति पायसं भुक्त्वा मन्थं द्रवणालाड़ितं सक्त कमनुपिबति यस्तस्य स पायसो विरुद्धः। उपोदिका पुदिना तिलकल्कलिप्ता पकातिसारस्य हेतुः। वलाका काणवकी वारुण्या सह विरुद्धा, कुल्माषैः काञ्जिकैः सहापि विरुद्धा, सैवेति बलाकैव शूकरवसायां भृष्टा । मयूरमांसमेरण्डसीसकावसक्तमेरण्डपत्रटन्तनालावलग्नमेरण्डकाष्ठामिना प्लुष्टं दग्ध पुनरेरण्डतलयुक्त भक्षितम् । सुश्र ते च-“कपिञ्जलमयूरलावतित्तिरिगोधाश्चरण्डएकदेशेऽपि सर्वन्यपदेशः, यथा-"सर्वान् भोजयेत्' इति, किंवा, सर्वग्रहणमम्लपाकानामपि व्रीह्यादीनां ग्रहणार्थम् ; पयसेति तृतीययैव सहाथ लब्धे पुनः 'सह' इत्यभिधानं केवलाम्लादियुक्तस्यैव विरोधितोपदर्शनार्थम्, तेन अम्लपयःसंयोगे गुड़ादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम् ; वनको वनकोद्रवः, पद्मोतरिका कुसुम्भः, शार्कर इति मैरेयविशेषणम्, अति वातं कोपयतीतिवचनेन पित्तकफावल्पं कोपयतीति बोधयति, एवं पित्तञ्चातिकोपयति कफञ्चातिकोपयतीत्येतयोरपि वाच्यम् ; हारिन्द्रको हरिताल इति ख्यातः पक्षी ; वलाका बारुण्या सह * हारिद्रकमांसं हारिद्रसासकावसक्तम् इति पाठान्तरम् ।
For Private and Personal Use Only