________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः] सूत्रस्थानम् ।
६८३ सहाभ्यवहरेत्। तन्मूलं हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशङ्खकगलगण्डरोहिणीनामन्यतमं प्राप्नोत्यथवा मरणम्। तथा न मूलकलशुनकृष्णगन्धा कसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात् । न जातुशाकं न च निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम्, एतद्धि मरणायाथवा बलवर्णतेजोवी-परोधाय अलघुव्याधये पाण्डयाय चेति। तदेवं निकुचं पक्कं न माषसूपगुड़सर्विभिः सहोपभोज्यं वैरोधिकत्वात्। तथाम्रानातकमातुलुङ्गनिकुचकरमईमोचदन्तशठबदरकोषाम्रभव्यजाम्बवकपित्थतिन्तिडीपारावतासर्पपतैलभृष्टान् मधुपयोभ्यां सह नाभ्यवहरेत् । कस्मात् ? तन्मूलं हीत्यादि। शोणिताभिष्यन्दनं धमनीप्रविचयः धमनीनां विस्तारभावः। एषामन्यतमं प्रामोत्यथवा मरणमिति। सुश्रुते चोक्त-"न मधुपयोभ्यां कपोतान् सर्पपतैलभृष्टानद्यात्' इति । तथेत्यादि। मूलकादीनामन्यतमं भक्षयिखा न पयः सेव्यम् । कृष्णगन्धा शोभाञ्जनम् । अज्जकं पर्णाशभेदः । सुमुखस्तुलसीभेदः। सुरसः पर्णाशः । कस्मात् ? कुष्ठावाधभयात् । न जातुशाकमित्यादि। जातुशाकं वंशतिका । पकनिकुचं डहुः । पयोमधुभ्यां नोपयोज्यं नाश्नीयात्, एतद्धि यतस्तन्मरणायाथवा वलवणवीय्यतेजसामुपरोधाय, अलघुव्याधये गुरूव्याधये पाण्ड्याय चेति। तदेवमित्यादि। एवं तनिकुचं पक माषादिभिः सह नोपयोज्यं वैरोधिकखात् । तथाम्र त्यादि । आम्राद्यम्लं सव्वं द्रवमद्रवञ्च पयसा सह विरुद्धम् । अम्लञ्चेत्युक्त्या मधुराम्रादीनां न पयसा सह विरोधः । कोपाम्र बालाम्रम् । करमदेः पानीयामलकम् । पारावतो जम्बीरविशेषः । मुकता अव्यक्तवचनता ; पौष्करादीनां मधुपयोभ्यां सहाभ्यवहारो विरुद्धः, पोकरं पुष्करपत्ररूपं शाकं, रोहिणी कटुरोहिणी, धमनीप्रविचयः सिराजग्रान्थः ; जातुशाकं वंशपत्रिका ; वैरोधिकत्वादित्यनेन प्रकरणलब्धस्यापि वैधिकत्वस्य पुनरभिधानं सामान्योक्तषाण्ड्यादिव्याधिकर्तृतोपदर्शनार्थम्, एवमन्यत्रापि सामान्येऽपि वैरोधिकत्वमात्राभिधाने वक्तव्यम् ; तथाम्लेत्यादौ 'अम्ल' ग्रहणेन लब्धस्याप्यालादानामभिधानं विशेषविरोधसूचनार्थम् ; सर्वग्रहणेनैव द्वादवाम्ले प्राप्ते पुनवाद्ववचनं 'सर्व'शब्दस्य द्रवादवाम्लकारार्थताप्रतिपादनार्थ, भवति हि प्रकरणात
For Private and Personal Use Only