________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८२
चरक-संहिता। [आत्रेयभद्काप्यायः नेति भगवानात्र यः.----सर्वानेव मरयान् न पयप्ता सहाभ्यवहरेद्विशेषतस्तु चिलिचिमम्* स हि महाभिप्यन्दित्वात्, स्थूललक्षणभवानेतान् व्याधीनुपजनयत्य.मविषतुदीरयति च ग्राम्यानपौदकानि पिशितानि च मधुगुड़तिलपयोमाषमूलकमारिषविरुदधान्यैश्च नैकध्यमाददीत; तन्मूलं हि बाधिUन्ध्या जाड्यविकलमूकतामैन्मिन्यमथवा मरणमवाप्नोतीति। न कपोतान् सर्षपतैलमृष्टान् मधुपयोभ्यां शोणितजानां विरुद्धाहारजानाञ्च व्याधीनामन्यतमं व्याधिमाप्नुयात् । मरणं वाप्नुयात् ॥ ६९॥
गङ्गाधरः-इति भद्रकाप्यवचनं निशम्य नेत्यात्रेय उवाच । कस्मान्नेत्युच्यते तत्राह-सनिवेत्यादि । सर्वानेव मत्स्यान् पयसा नाभ्यवहरेत् । विशेषतस्तु चिलिचिमं पयसा नाभ्यवहरेत् । कस्मात् ? सहीत्यादि। हि यस्मात् स चिलिचिमो महाभिष्यन्दी यतस्ततः पयसा सह संयोगेऽतिमहाभिप्यन्दी भूखा स्थूललक्षणभवान् स्थूलाहारजलक्षणैरुत्पन्नानेतान् विरुद्धाहारजान् शोणितदुष्टिजान् व्याधीनुपजनयति तथामविपमलसकमुदीरयति चेति तत्त्वम् । सुश्रुतेऽप्युक्त'--"सांश्च मत्स्यान् पयसा विशेषेण चिलिचिमं नाश्नीयात्” इति । अथापरमाह-ग्राम्येत्यादि । ग्राम्यायन्यतममांसं मध्वाघन्यतमश्च सहकध्यं नाददीत, कस्मात् ? तन्मूलं हीत्यादि । हि यस्मात् तदग्राम्यादिमांसमध्वादिसंयोगविरुद्धाहारमूलमान्ध्यादिकमथवा मरणञ्च । जाड्यमव्यक्तवचनं, विकलं मनसो वैकल्यं व्याकुलत्वं, मूकता वागरहितत्वं, मन्मिन्य सानुनासिकवचनत्वमिति । सुश्र ते च-"न विरूढधान्यैवेसामधुपयोगुड़मापर्वा ग्राम्यानूपौदकपिशितादीन्यभ्यवहरेत" इति। न कपोतानित्यादि। वनकपोतान् - वैरोधिकमधिकृत्येति वैरोधिकमुद्दिश्य, शीतोष्णत्वादिति-पयः शीतम् उष्णवीर्याश्च मत्स्याः, शेपं मधुरत्वादि समानम् । एतच्च द्रव्यप्रभावादेव विरोधि। “स पुनः शकली' इत्यादिना नान्दिनिरिति ख्यातो मत्स्य उच्यते ॥ ६७-६९ ॥ चक्रपाणिः-ग्राम्यपिशितादीनि मध्वादीनामन्यतरेणापि विरुद्धानि ; कलमूकतेति कल* महाभिष्यन्दितमत्वादिति वा पाठः।। । इतः परं वेपश्चिति अधिक, तथा “विकलमूकता" इत्यत्र ‘कलमूकता" इति चक्रसम्मतः
पाठः।
For Private and Personal Use Only