________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ] सूत्रस्थानम्।
९८१ वीर्य्यत्वाच्छोणितदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय चेति॥६॥
तदनन्तरमात्र यवचनमनु भद्रकाप्योऽग्निवेशमुवाच । सर्वानव मत्यान पयसा सहाभ्यवहरेदन्यत्र कस्माच्चिलिचिमात् । स पुनः शकली सर्वतो रोहितराजी रोहितप्रकारः प्रायो भूमौ च ति। तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विरुद्धजानाञ्च ® . व्याधीनामन्यतममथवा मरणमवाप्नुयात् ॥ ६ ॥ सह मत्स्यभोजनं महाभिष्यन्दित्खान्मार्गांपरोधाय च तद्भवतीत्यनेन ज्ञापितम् । रसपाकतस्तुल्यानां संयोगेऽतिमात्रं तद्रसमानं भवति । रसतस्तुल्यानि पाकतः चद्भिन्नानि स्युस्तेषां संयोगान्न तथातिमात्रं विरुद्धखम् । पाकतस्तुल्यानां रसतो भिन्नानाञ्च संयोगेऽपि न तथातिमात्र विरुद्धखमिति ॥ ६८ ॥
गङ्गाधरः-तदनन्तरमित्यादि। भद्रकाप्यो यदुवाच तदाह-सर्वानेव इत्यादि । एक चिलिचिमं मत्स्यं विना सर्वानेव मत्स्यान् पयसाऽभ्यवहरेत्। कः पुनश्चिलिचिम इत्यत आह–स पुनः शकली नान्दलिमत्स्य इति ख्यातो भवति । सव्वेतः सर्वपावं लोहितवर्णराजी रोहितमत्स्याकारश्च प्रायो भूमौ चरति। तं चिलिचिमं चेत् पयसाभ्यवहरेत् तदा निःसंशयं संयोगविरुद्धं यथा-"तदेव निकुचं पक्कं न माप" इत्यादिनोक्तम्, यत् संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धमुच्यते, तत् संयोगविरुद्धम् ; मत्स्यपयसोस्तु यद्यपि सहोपयोगो विरुद्धत्वेनोक्तः, तथाप्यसौ गुणविरुद्धत्वेन कथित इति गुणविरोधकस्यैवोदाहरणम् ; विरोधश्च विरुद्धगुणत्वे सत्यपि क्वचिदेव द्रव्यप्रभावात् स्यात्, तेन पड़साहारोपयोगे मधुराम्लयोर्विरुद्धशीतोष्णवीर्य योर्विरोधो न भावनीयः ; संस्कारविरुद्धं यथा-"न कपोतान् सर्पपतैलभृष्टान्” इत्यादि। देशो द्विविधः-भूमिः शरीरञ्च ; तत्र भूमिविरुद्धं यथा-'तदेव भस्मपांशुपरिध्वस्तम्" किंवा "यत् किञ्चिदगोचरभूतम्' तद्देशविरुद्धम् ; शरीरविरुद्धं यथा-"उष्णातस्य मधु मरणाय'; कालविरुद्ध यथा-"पर्युषिता काकमाची मरणाय” ; मात्राविरुद्ध यथा -“समटते मधुसर्पिषी मरणाय" ; आदिग्रहणाद दोपप्रकृत्यादिविरुद्धानां ग्रहणं ; स्वभावविद्धं, यथा-विपम् ।
* विबद्धजानान्चेति पाठान्तरम्।
For Private and Personal Use Only