________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
चरक-संहिता। [ आत्रेयभद्रकाप्योयः कानिचित् संयोगात् संस्कारादपराणि देशकालमात्रादिभिश्चाग्राणि तथा स्वभावादयराणि। द्रव्याणि तत्र यान्याहारमधिकृत्य भयिष्टम् उपयुज्यन्ते तेषामेकदेशं वैरोधिकम् अधिकृत्य उपक्ष्यामः॥६७॥
न मत्स्यान् पयसा सहाभ्यपहरेत्, उभयं ह्य तन्मधुरं मधुः वि..का महाभिव्यन्दि, शीतो णत्वाद्विरुद्धवीय्य विरुद्ध
रसादीनां पुरीषमूत्रवातपित्तकमादीनां स्वेदादीनाञ्च प्रकृतिस्थानां प्रत्यनीकभूतानि गणविपरीतगणयोगेन नाशकभूतानि द्रव्याणि देहधातुभिः सह विरोधमापद्यन्ते न समानगुणानि। इत्याहारविकाराणां वैरोधिकानां लक्षणम्।
ननु दहधातुप्रत्यनीकानि कानि द्रव्याणि कथं भवन्तीति ? अत उच्यतपरस्परेत्यादि। कानिचिद द्रव्याणि देहधातुसमगुणान्यपि द्रव्यान्तरसंयोगात् परस्परं गणतो विरुद्धानि भवन्ति। अपराणि कानिचिद् द्रव्याणि संस्कारात् परस्परगुणविरुद्धानि भवन्ति । एवमपराणि कानिचिद् द्रव्याणि देशकालमात्राप्रकृतिवयोऽवस्थादिभियोगेनकशोऽपि विरुद्धगुणानि भवन्ति। तथा स्वभावादपराणि कानिचिद् द्रव्याणि स्वरूपत एव देहधातुविपरीतगुणतया गुणविरुद्धानि भवन्ति । तानि देहधातुप्रत्यनीकानि द्रव्याणि । तत्राहारमधिकृत्य यानि द्रव्याणि यथायिष्ठं यथा स्यात तथोपयुज्यन्ते तेषां द्रव्याणामेकदेशं कियद्रव्यं वैरोधिकमधिकृत्योपदेक्ष्यामः। इति प्रतिशातम् ॥६७॥
गङ्गाधरः-तद्यथा--न मत्स्यानित्यादि। मत्स्यान् निखिलान् पयसा सह नाभ्यवहरेत् । कस्मात् ? उभयमित्यादि। हि यस्मादुभयं मत्स्याश्च पयश्चेत्युभयं रसे मधुरं मधुरविपाकाच महाभिष्यन्दि भवति। पयसः शीतवीय्येवान्मत्स्यस्योष्णवीर्यवान् विरुद्धवीर्य तस्माच्छोणितदूषणाय तत् पयसा प्रत्यनीकस्वरूपाणि, विरोधमापद्यन्त इति देहधातूनां विरोधमाचरन्ति दूषयन्तीति यावत् ; यथाभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह-परस्परविरुद्धानि कानिचिदित्यादि। तत्र परस्परविरुद्धानि यथा-"न मत्स्यान् पयसाऽभ्यवहरेभय ह्य तद इत्यादिनोक्तानि ;
For Private and Personal Use Only