________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ]
सूत्रस्थानम् ।
वैषम्य स्तम्भजाड्यै र्यो रसनं योजयेद रसः । नातीव च यः कण्ठं कषायः स विकाश्यथ ॥ ६५ ॥ एवमुक्तवन्तं भगवन्तमात्र यं पुनरग्निवेश उवाच । भगवन् श्रतमेतदवितथमर्थसम्पद्युक्तं भगवतो यथावद्रव्यगुणकर्माधिकारे वचः । परन्तु आहारविकाराणां वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदेश्यमानं शुश्रू पामहे इति ॥ ६६ ॥
तमुवाच भगवानात्र यः, देहधातुप्रत्यनीकभूतानि द्रव्याणि देहातुभिर्विरोधमापद्यन्ते परस्परगुणविरुद्धानि कानिचित् व्यावृत्त्यर्थमाह-मुखेत्यादि । मुखस्य लेपस्राव विष्यन्दकरणमन्तरेणेंवापच्छिल्यं वैशद्यम्, शोषः शुष्कीभावः अमहादः आहादाभावः । स तिक्तो रसः स्मृतः । कषायविज्ञानमाह-वैषम्येत्यादि । यो रसस्तु मुखे निपतितः सन् रसनं वैषम्यस्तम्भजाडैर्योजयेत् कण्ठञ्चातीव च वन्नाति, विकाशी च सन्धिबन्धं विमोक्षयन् विकशति स कषायो रसः स्मृतः । सुश्रुते तूक्तं हृदयं पीडयतीति ॥ ६५ ॥
गङ्गाधरः - एवमित्यादि । एवमित्याहारविनिश्चये द्रव्याणां रसविपाकवीर्य्यप्रभावानुक्तवन्तं भगवन्तमात्रेयं गुरुमग्निवेश उवाच । यदुवाच तदाहभगवन्नित्यादि । भगवन् ! भगवतः श्रुतमेतद्रव्यगुणकर्माधिकारे यथावदवितथमथसम्पद्युक्तं वच उक्तम् । परन्तु खल्वाहारविकाराणामोदनव्यञ्जनादीनां वैरोधिकानामनतिसंक्षेपेण भगवतोपदिश्यमानं लक्षणं भगवतः शुश्रुषामहे वयमिति ॥ ६६ ॥
गङ्गाधरः - तमुवाचेति । तं तथा पृष्टवन्तमग्निवेशं भगवानात्रेय उवाच । यदुवाच तदाह - देहधाखित्यादि । देहधातुप्रत्यनीकभूतानीति देहधातूनां
चक्रपाणिः - संप्रति विरुद्वाहारं वक्तुमाह - एवमित्यादि । शरीरधातुविरोधं कुब्र्बन्तीति वैरोधिकाः, लक्ष्यते वैरोधिकमनेनेति लक्षणं- वैरोधिकाभिधायको ग्रन्थ एव; " यत् किञ्चिद्दोषमratorम्" इत्यादि चैरोधिकलक्षणं ज्ञेयम् ॥ ६६ ॥
चक्रपाणिः - देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वातादीनाञ्च प्रकृतिस्थानां
* वैपम्येत्यत्र वैशदेपति पाठः साधीयान् ।
For Private and Personal Use Only
ह७८