________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७८
चरक-संहिता। [आत्रेयभद्रकाप्यीयः दन्तहर्षान्मुखात्रावात् स्वेदनान्मुखबोधनात् । प्राश्यैवाम्लरसं विद्याद विदाहाच्चास्यकण्ठयोः॥ प्रीणयन् क्लेदविष्यन्द-मार्दवं कुरुते मुखे। यः शीघ्र लवणो ज्ञ यः स विदाहान्मुखस्य च ॥ संवेजयेद यो रसनां निपाते मुह्यतीव च । विदहन् मुखनासाक्षि-संस्रावी स कटुः स्मृतः ॥ प्रतिहन्ति निपाते यो रसनं स्वदते न च। स तिक्तो मुखवैशद्य-शोषप्रह्लादकारकः ॥
अम्लविज्ञानमाह-दन्तेत्यादि। अम्लं रसं प्राश्यैव तद्रसद्रव्यं दन्तहषादितो विद्यात् । दन्तहर्षश्च मुखस्रावश्च स्वेदनश्च मुखप्रबोधनञ्चास्यकण्ठविदाहश्चाम्लप्राशने स्यादिति । एवञ्च लवणप्राशनेऽपि स्यात तात्यर्थमाह-प्रीणयन्नित्यादि। यो रसः प्राश्यमानः खलु प्राशितारं जनं प्रीणयन् मुखे क्लेदादीनि कुरुते शीघ्र न तु दन्तहर्ष कुरुते स रसो मुखस्य विदाहाच्च लवणो ज्ञेय इति। मधुरस्य मुखविदाहादिकाभावादम्ललवणाभ्यां भेदः, दन्तहर्षाभावाल्लवणस्याम्लतो भेदः ।
तहि मुखविदाहश्च कटुकादपि भवतीति ? अत आह-संवेजयेदित्यादि । यो रसो मुखे निपाते रसनं संबेजयेदुद्वजयेत्। मुह्यतीव मोहयतीव यः। मुखनासाक्षि विदहन् यो मुखादिस्रावी स्यात् स कटुकः स्मृतः। इति पूर्वाभ्यां भेदः।
तिक्तरसविज्ञानमाह-प्रतिहन्तीत्यादि। यो रसो मुखे निपाते रसनं प्रतिहन्ति न च स्वदते। रसनस्य तदा स्वादनक्रियायामनुत्साहः प्रतिघातः। स्वदते हि न। लवणकटुकयोरेवं रसप्रतिघातकखे तद्वारणार्थ स्वदते न चेति। यथा मधराम्लो खदेते न तथा लवणकटुकाविति तद.
चक्रपाणिः-प्रलीयन्निति विलीनो भवन, संस्रावयतीति संसावी। विकासीति हृदयविकसनशीलः, उक्त हि सुश्रुते-"हृदय पीड़यति' इति ॥६५॥
* प्रीणयन्नित्यत्र प्रलीयन् इति पाठान्तरम् । + मुह्यतीवेत्यत्र तुदतीवेति वा पाटः।
For Private and Personal Use Only