________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९७५
२६श अध्यायः
सूत्रस्थानम् । किश्चिद रसेन कुरुते कर्म वीर्येण चापम् । द्रव्यं गुणेन पाकेन प्रभावेण च किञ्चन ॥
साधारणलक्षणेन रसपाकशब्दस्पर्शादिगुरुलाघवादीनि कर्माणि च सर्वाणि वीर्याणि भवन्ति। तत्र यस्य यत् कम्मे तत् तस्य चिन्तया निवक्तुं शक्यं तातिरिक्त द्रव्यस्य यत् कम्र्मविशेषः सोऽचिन्ताः तत्तद्रसपाकगुणकर्मभिः काय्यतया चिन्तयितुमशक्यस्ततः प्रभावः शक्तिविशेष उच्यते । प्रभवनं प्रभावः सामर्थ्य स्वखारम्भकद्रव्यसंयोगे समवेतानां तेषां द्रव्यगुणकर्मणां द्रव्यगुणयोः सजातीयारम्भकखात् तत्र द्रव्यात् सजातीयद्रव्यान्तरं जायते गुणात् सजातीयगणान्तरं जायते। कम्प्रणान्तु सजातीयकम्ारम्भकवनियमाभावात् कर्मासाध्यकभिावाच्च यत्र विजातीयं कर्म तदारम्भकद्रव्याणां कर्माण्यारभन्ते । तद्विजातीयं कम्मे खल्वचिन्त्यं स प्रभाव उच्यते । काय्यभूतं कर्मेदं कम्मेपदार्थः प्रभावः । कार्यद्रव्यं दन्तादिकं तत्कर्म विशेषेण स्वीयेन प्रभावेण विरेचनादि कर्म करोतीति ॥६३॥
गङ्गाधरः-तथा चोच्यते-किञ्चिदित्यादि । द्रव्यन्तु रसेन किश्चित् कर्मा कुरुते। अपरं किश्चित् कर्म वीव्येण वीय्यसंशकेन गुणाष्टकेन कुरुते । किञ्चन कर्म गुणेन रसवीय्येसंज्ञगुणव्यतिरिक्त न गन्धादिस्थिरसरादिना कुरुते। किश्चन कम्मै पाकेन कुरुते। किञ्चन कर्म स्वस्य प्रभावेण कुरुते । इति प्राधान्यादद्रव्यप्रभाव उदाहृतः। रसादीनां खलु मधुरादीनामपि यत् स्वस्खलक्षणं स्वभावसिद्धं तत् तस्य तस्य प्रभावकृतमुन्नेयम्। यथाग्ने रूपं प्रकाशयति भूमे रूपं तमो न प्रकाशयति। औष्ण्यं दहति शैत्यं शीतयतीत्येवमादि सर्व प्रभाववदेव नाप्रभावं किञ्चिदस्ति द्रव्यं वा गुणो वा कर्म वेति।
स्वरूपत एव विरेचयति, तेन किमिति जलायु पहता दन्ती न विरेचयतीति ; प्रतिबन्धकाभावविशिरस्यैव प्रभावस्य कारणत्वात्, जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धक इत्यायनुसरणीयम् ; नैयायिकशक्तिवादे-या च विषस्य विषन्नत्वे उपपत्तिरुक्ता ऊर्धाधोगामित्वविरोधलक्षणा, सान्त गत्वात् प्रभावादेव स्यात् ; एवमू नुलोमिकत्वादी पार्थिवत्वादिलक्षणेऽपि वाच्यम ॥ ६३॥
For Private and Personal Use Only