________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
चरक-संहिता। [आत्रेयभद्रकाप्यीयः विषं विषन्नमुक्तं यत् प्रभावस्तत्र कारणम् । ऊर्धानुलोमिकं यच्च तत् प्रभावप्रभावितम् ॥ मणीनां धारणीयानां कर्म यद विविधात्मकम् । तत प्रभावकृतं तेषां प्रभावोऽचिन्य उच्यते ॥ ६३ ॥
तस्य काय्य सामान्यं कटुरसस्य यत् कार्य कटुपाकस्य यत् कार्यमुष्णवीय्यस्य च यत् कार्य तत्तल्लक्ष्यते न चाधिकं कर्म लक्ष्यते। तद्वद् दन्ती रसे कटुका पाके कटुका वीय्ये चोष्णा तत्तद्रसपाकवीर्याणां कर्माणि शुक्रहननविण्मूत्रबन्धादीनि यानि तेषु मध्ये सर्व सामान्य लक्ष्यते विशेषस्तु विरेचनं कर्म लक्ष्यते यत्तत् प्रभावान्मानवं विरेचयति । अपरश्च-विषमित्यादि। विपं विषघ्नं यदुक्त जङ्गमविषघ्न स्थावरविषं, स्थावरविषघ्नं जङ्गमविषं विपरीतगतित्वात्। जङ्गमविषमूर्द्ध गं स्थावरविषमयोगमिति परस्परं गतिविपरीतखेन मिथो नाशकमपि यद्गतिविपर्ययः स प्रभावादेवेति। यच्चो नुलोमिकं द्रव्य मदनादित्रितादिक तदपि प्रभावप्रभावितम् । एवं चन्द्रकान्तादीनां मणीनां ग्रहपीड़ादिशान्त्यर्थमपामार्गमूलादीनां धारणीयानां यहाहविषादिग्रहपीड़ादिप्रशमनादिकं विविधात्मकं कर्म दृश्यते तेषां प्रभावकृतं तत्तत् कर्म न तु रसपाकवीर्यकृतं भवति। न तु येन या क्रिया क्रियते तस्यां क्रियायां तस्य तवीर्यमुक्तम् । ततो वीय्यमेव प्रभावः कथं वीर्यसामान्ये कर्मविशेष एष प्रभावोऽतिरिच्यत इति ? अत आह-प्रभावोऽचिन्त्य उच्यते इति । येन कुर्वन्ति तद्वीय॑मिति
धारयितु शक्यते फाय्य, तत् प्रभावकृतमिति सूचयति, अत एवोक्तम्-"प्रभावोऽचिन्त्य उच्यते । रसवीर्य विपाकतयाचिन्त्य इत्यर्थः। अस्व दुरभिगमत्वाइदाहरणानि बहून्याह -कटुक इत्यादिना। तद्वदन्ती चित्रकसमानगुणा, विषप्तमुक्तमिति ‘तस्माद, दंष्ट्राविषं मौलम्" इत्यादिना ; ऊोनुलोमिकमिति युगपत् उभयभागहरम् ; किंवा, ऊद्ध हरं तथानुलोमकरञ्च ।
कर्म यद्विविधात्मकमिति विषहरणशूलहरणादि ; एतच्चोदाहरणमात्रम्, तेन, जीवनमेध्यादिद्रव्यस्य रसायचिन्त्यं सर्च 'प्रभावः' इति ज्ञेयम् ; प्रभावश्चेह द्रव्यशक्तिरभिप्रेता, सा च द्रव्याणां सामान्यविशेषः-दन्तीत्वादियुक्ता व्यक्तिरेव, यतः शक्तिहि स्वरूपमेव भावानाम्, नातिरिक्त किञ्चिद्धर्मान्तरं भावानाम् ; एवं प्रदेशान्तरोक्तगुणप्रभावेष्वपि वाच्चम्, यथोक्त---'द्रव्याणि हि द्रव्यप्रभावाद् गुणप्रभावाद्' इत्यादि ; न च वाच्यम्-दन्त्यादिरेव
For Private and Personal Use Only