________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
सूत्रस्थानम्। मृदुतीक्ष्णगुरुलघु-स्निग्धरुतोष्णशीतलम् । वीर्यमष्टविधं केचित् केचिद् द्विविधमास्थिताः ॥ शीतोष्णमिति वीर्यन्तु क्रियते येन या क्रिया।
नावीय्यं कुरुने किञ्चित् सा वीर्यकृता हि सा॥ कटुमध्यमरूपेण। कषायरसविपाकः कटुरुत्तमरूपेणेति। इत्येवं द्रव्याणां स्नेहरोक्ष्यादिगुणवैशेष्यादल्पमध्यश्रेष्ठखादुपलक्ष्य ब्रूयात् ॥ ६१॥
गङ्गाधरः-ननु स्नेहादयो गुणाः किं कुव्वेन्ति कदा वेति ? अत आहमृद्वित्यादि। मृदादिकमष्टविध वीर्यमास्थिताः केचिदपरे केचिच्छीतोष्णमित्येव द्विविधं वीर्यमास्थिताः। इति । सुश्रुने चोक्त-“तत्र वीय्यं द्विविधम् उष्णं शीतश्चानीपोमीयखाजगतः। केचिदष्टविधमाहुः --उष्णं शीतं स्निग्धं रुक्षं विशदं पिच्छिलं मृदु तीक्ष्णश्च इत्येतानि वीर्याणि खवलगुणोत्कर्षाद रसमभिभूयात्मकम् कुर्वन्ति । इति ।” “तत्र य इमे गुणा वीय्यसंशकाः शीतोष्णस्निग्धरुक्षमृदुतीक्ष्णविशदपिच्छिलास्तेषां तीक्ष्णोष्णावाग्नेयो शीतपिच्छिलावम्बुगुणभूयिष्ठौ पृथिव्यम् गुणभूयिष्ठः स्नेहः। वास्वमिभूयिष्ठं रौक्ष्यम् । तोयाकाशभूयिष्ठं मृदुखम् । क्षितिसमीरणभूयिष्ठं वैशयम् । गुरुलघुविपाकाबुक्तगणो । तत्रोष्णस्निग्धौ वातघ्नौ । शीतमृदुपिच्छिलाः पित्तनाः । तीक्ष्णरुक्षविशदाः श्लेष्मनाः। गुरुपाको वातपित्तनः । लघुपाकः श्लेष्मनः । तेषां मृदुशीतोष्णतीक्ष्णाः स्पर्शग्राह्याः। पिच्छिलविशदौ चक्षुःस्पर्शाभ्याम् । स्निग्धरुक्षौ चाक्षुषो। शीतोष्णो सुखदुःखोत्पादनेनेति”। अत्र पिच्छिलविशदौ न वीर्यसंशयोक्तो गुरुलघू च वीर्यसंशयोक्तौ । सुश्रुते विपाकावुक्ताविति। तत्र स्वमतमाह-वीय्येन्वित्यादि । क्रियते येन या क्रिया तस्यां क्रियायां तस्य सा क्रिया साधनं वीव्यं भवति। तहि किं द्रव्याणां गणाः कर्माणि च चिन्त्यान्यचिन्त्यानि प्रभावाख्यानीति सव्वं वीयं भवतीति ? अत आह-नावीय्येमित्यादि। किश्चिदप्यवीय वस्तु न किञ्चित् कर्म पाकात् भिन्नमेव, तत्र ह्यविशेषेण सर्वेषामेव रसानामवस्थावशात् त्रयः पाका वाच्याः "अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः" इत्यादिना ग्रन्थेन ॥ ६१ ॥
चक्रपाणिः-एकीयमतेन वीर्यलक्षणमाह-मृद्वित्यादि। एतच्चैकीयमतद्वयं पारिभाषिकी वीर्यसंज्ञा पुरस्कृत्य प्रवृत्तम् । वैद्यके हि रसविपाकप्रभावव्यतिरिक्त प्रभूतकार्यकारिणि गुणे "वीर्यम्" इति संज्ञा, तेन अष्टविधवीर्य्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं
For Private and Personal Use Only