________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। आत्रयभद्रकाप्यीयः
चरक-संहिता। । आत्रयभद्रकाप्यीयः गणवैशेष्यादल्पमध्यश्रेष्ठखात् तत्र तत्र विपाककर्म सु स्वल्पमध्यमश्रेष्ठलमुपलक्षयेत् । तेन मधुररसविपाको मधरः श्रेष्ठो विण्मूत्रमोक्षे कफशुक्रद्धौ च । लवणरसविपाको मधुरस्वल्पः सृष्टविष्मूत्रः कफशुक्रलचाल्पः। अम्लश्च मध्यमः सृष्टविण्मूत्रः शुक्रनाशनश्च मध्यमः। तिक्तकटुकषायाणां तिक्तरसविपाकः कटुरल्परूपेण शुक्रहा बद्धविण्मूत्रो वातलश्च। कटुरसविपाकः
विपाकस्योष्णवीटर तायामपि सत्यां न पित्तकर्तृत्वमुपपद्यते रसविपाकाभ्यामेकस्य वीर्यस्य बाधनीयत्वात् ; किञ्च, अम्ल पाकत्वाद ब्रीह्यादे: पित्तमम्लगुणमुत्पद्यते , यदि तु तदुष्णवीर्यताकृतं स्यात्, तदा कटुगुणभूयिष्ठं पित्तं स्यात्। दृश्यते च ब्रीहिभक्षणादम्लोद्गारादिना अम्लगुणभूयिष्ठतैवेति ; किञ्च, पृथिवीसोमगुणातिरेकान्मधुरपाको भवति, वावग्न्याकाशातिरेकाच्च कटुर्भवतीत्यपेक्षया यदा व्यामिश्रगुणातिरेकता स्यात्, तदा सोमाग्न्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः ? . अथवा तन्त्रकारयोः किमनयोरनेन वचनमात्रविरोधेन कर्त्तव्यम् ? यतः यदम्लपाकं चरको ब्रूते, तत् सुश्रुतेन वीर्योष्णमिति कृत्वा समाधीयते, तेन न कश्चित् द्रव्यगुणे विरोधः ; यत् तु सुश्रुते अभ्लपाकनिरासार्थं दूषणमुच्यते-"पित्तं हि विदग्धमम्लतामुपैति" इत्यादिना, तदनभ्युपगमादेव निरस्तम्। ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपन्नं, तथा तिक्तकषाययो: कटुपाकित्वे पित्तहन्तृत्वमनुपपन्नम्, नैवम, सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणे रस उष्णञ्च वीर्य यदस्ति, तेन तु पित्तरतादिकारकत्वम् ; विपाकरतु तत्र पित्तरक्तहरणलक्षणे कार्य बाधितः सन् “सृष्टविण्मूत्रः” इत्यादिना लक्षणेन लक्ष्यत एव । एतेन, यदुच्यते-लवणे मधुरो विपाकश्चेत्, रसवीर्याभ्यां बाधितः सन् स्वकार्यकरो न स्यात्, तत् किं तेनोपदिष्टेनेति तन्निरस्तं स्यात् ; यतः अस्त्येव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम् ; अनया दिशा तिक्तकषाययोरपि पूर्वपक्षपरिहारः। अन्ये तु दोषभयात् लवणोऽम्लं पच्यत इति व्याख्यानयन्ति "लवणस्तथा" इत्यत्र 'तथा'पदेन विप्रकृष्स्याम्लस्य कर्षणादिति ; तन्न, कटादीनां कटुको विपाकोऽग्लोऽग्लस्य शेषयोर्मधुरः” इति जतूकर्णवचनात् ; न च वाच्यम्,कस्मात् त्रय एव विपाका भवन्ति, न पुनस्तिक्तादयोऽपीति, यतः भूतखभाव एवैषः, येन मधुरादयस्त्रय एव भवन्ति, भुतस्वभावाश्चापर्य्यनुयोज्याः। ननु, यश्च रसविपरीतः पाकः-यथालवणस्य मधुरः, तिक्तकषाययोश्च कटुः, स उच्यताम्, यस्तु समानगुणो मधुरस्य मधुरोऽग्लस्य भम्लः कटुकस्य वा कटुकः, तत्कथने किं प्रयोजनम् ; यतः रसगुणरेव तत्र विपाकगुणोऽपि ज्ञास्यते ; नैवम्, येन, लवणादिवदविसदृशरसान्तरोत्पादशङ्कानिरासार्थमपि तत्रानुगुणोऽपि विपाको वक्तव्य एव, विपाकजश्च रस आहारपरिणामान्ते भवति, प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञयः, तेन, पिप्पल्या: कटुकरसत्वमादौ कष्टस्थइलेष्मक्षेपणमुखशोधनादिकर्तृत्वेन सप्रयोजनम्, मधुरविपाकत्वन्तु परिणामेन वृष्यत्वज्ञापनेन सप्रयोजनम् । तथा यत्र विपाकस्य रसाः समानगुणतयानुगुणा भवन्ति, तत्र बलवत् कायं भवति ; विपर्यये तु दुर्बलमिति ज्ञेयम् ; एतच्च पाकत्रयं द्रव्य नियतं ग्रहण्यध्याये वक्ष्यमाणाहारावस्था
For Private and Personal Use Only