________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। यभद्रकाप्यीयः रसो निपाते द्रव्याणां विपाकः कम्मनिष्ठया।
वीयं यावदधीवासान्निपाताच्चोपलश्यते ॥ ६२ ॥ कुरुते । कस्मात् ? सर्वा क्रिया हि यस्माद्वीयंकृता द्रव्येप्वारोप्यते । सुश्रुतेऽप्येवम् । येन कुर्वन्ति तद्वीपमिति तथा द्विधा वीर्यमष्टया वीर्यश्चानयोढ योर्मतेऽन्तर्भूतं भवति। ननु सुश्रुते चोक्तम् --"तद् द्रव्यमात्गना किश्चित् किश्चिद्वीप्येण सेवितम्। किश्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥” इति। स्वयश्चात्राध्याये पूर्वमुक्तं-तत्र किश्चिद्रव्याणि गुणप्रभावादेव काम्मु काणि भवन्ति । द्रव्याणि हि द्रव्यप्रभावाट गुणप्रभावात् यत् कुर्वन्ति तत् कम्प्र इत्यादि । तत् कथं नावीयं कुरुते किश्चित् सा वीर्यकृता हि सा इति सङ्गच्छते? उच्यते--तद्रव्यमात्मना किञ्चिदिति यदुक्त तदात्मना स्ववीयण प्रभावेणेति च द्रव्यस्य वीय्येणेति ततो नानुपपत्तिः।
यद्यप्येवं द्रव्याणां स्वप्रभावो वीर्य गुणाश्च रसादयः सर्वाणि वीर्याणि तत् कथं रसादीनां भेद उपलभ्यत इति ? अत उच्यते--रसो निपात इत्यादि। द्रव्याणामभ्यवड़ियमाणानां मुखे रसनायां निपाते रसो मधुरादिः कार' प्रायः कुर्वन्ति, तेन तेषां रसाद्य पदेशेनैव ग्रहणं , मृद्वादीनान्तु रसायभिभावकत्वमस्ति, यथा- पिप्पल्यां कटुरसकार्य पित्तकोपनसभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव शमयत इति, तथा कपाये तिक्तानुरसे महति पञ्चमूले त कार्य वातकोपनमभिभूय उष्णेन वं. येण तद्विरुद्धं वातशमनमेव क्रियते, तथा मधरेऽपीक्षी शीतवीर्यत्वेन वातवृद्धि रित्यादि ; यदुक्त सुश्रुते---- "एतानि खलु वीर्याणि स्वबलगुणोत्कर्षात् रसमभिभूयात्मकर्म दर्शयन्ति” इत्यादि ; शीतोष्णवीर्यवादिमतन्तु अग्नीषोमीयत्वाजगतः शीतोष्णयोरेव प्राधान्याजज्ञ यम् ; उक्तञ्च----' नाना स्मकमपि द्रव्यमग्नीपोमो महाबलो। व्यक्ताव्यक्त जगदिव नातिकामति जातुचित् ॥ एतच्च मतद्वयमप्याचार्यस्य परिभापासिद्धमनुमतमेव, येन उत्तरत्र "रसीयविपाकानां सामान्य यत्र लक्ष्यते इत्यादौ पारिभाषिकमेव कार्य निर्देश्यति । पारिभाषिकवीर्यसंज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह- वीररिक त्यादि। बं मिति शक्तिः, येनेति रसेन वा विपाकेन वा प्रभावेण वा गुळदिपरत्वादिभिर्वा गुणैर्या क्रिया तर्पणलादनशमनादिरूपा कृत्स्ना क्रियत इत्युपदिश्यते, तस्यां क्रियायां तद्रसादि वीर्य्यम्, अत एवोक्त सुश्रुते,---'येन कुर्वन्ति तद वीर्यम्" इति । अत्रैव लोकप्रसिद्धामुपपत्तिमाह-- नावीर्यमित्यादि। अवीर्यमशक्तिमित्यर्थः ; वीयकृतेति वीर्यता कृता वीर्यकृता।
रसादीनामेकद्रव्यनिविद्वानां भेदेन ज्ञानार्थ लक्षणमाह-- रसो निपात इत्यादि ।
For Private and Personal Use Only