________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ]
सूत्रस्थानम् ।
६६७
:
मधुरत्वेन पाकान्मधुररससहचराः स्निग्धगुरुशीता विशेषेण पच्यन्ते, न तूष्णत्वम् औष्ण्यविशेषेण पच्यते । इति लवणस्य गुरोर्गुरुपाके पृथिवीगुणानां सजातीयतयाधिक्येनाभिनिर्ऋतौ नोष्णगणसजातीय उष्णो न भवति मधुररसपाकात् । लवणारम्भकाग्निगुणविनाशे भूमितोयगुणोद्रेकात् । निःसारखा वह्नः । भूमितोययोः ससारखादुदेके शेषाणां भूमितोयगुणानामाधिक्येनाभिनिट त्तिर्भवतीति द्वयोः अविरोधः । एवं कषायरसद्रव्ये पच्यमाने कषायो रसः कटुरसविशेषरूपेण पच्यते । तत्र कषायरस सहचरा रुक्षशीतगुरवस्तु गुणाः पाकात् अमृत्तस्य वायोरपगमे तद्गुणस्य शीतस्यापगमे पार्थिवगुणा अधिकवेनाभिनिव्र्व्वत्तन्ते । तस्मादयं गुरुः पाको रसपाके कटुरपि मधर उच्यते । एवं लघुपाकस्य संज्ञा कदुरुक्तः -- “ तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु । निव्वेर्त्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ॥” इति । तथा च-अम्लकटुतिक्ता अधममध्यमोत्तमा लघव उक्तास्ततस्तत्तद्रसद्रव्याणि तथैव लघूनि । तथैवावरमध्यमोत्तमकाले पच्यन्ते । इति लघुपाक उक्तो भूतगुणपाक एव । न तु अम्लकटुतिक्तरसानां पाक उक्तः । इह तु कटुतिक्तकषायाणां कटुरसपाकोऽम्लस्याम्लरसपाक उक्तः । तस्मादम्लकटुतिक्तद्रव्येषु पच्यमानेषु खल्वम्लरसद्रव्यपाकेऽत्राग्निगुणानामम्लरसव्यतिरिक्तानामाधिक्येन अभिनिर्ऋत्तिर्भवति । अतोऽयमलघुपाक उक्तः । तत्राम्लो रसस्त्वम्ल एव पच्यते विशेषरूपेण तत्राम्लो रसो न तोयगुणो न वाग्निगुण उभयगुणयोगे हि तोयस्याव्यक्तरसः परिणम्याम्लः पूर्वजातः पश्चादम्लविशेषरूपेण पच्यत इत्यतोऽयं लघुपाकरूपः कटुपाको भूतगुणानामम्ल रसस्य पुनरम्ल एव पाक इत्यविरोधः । कटुतिक्तद्रव्याणां पाके तिक्तस्य कटरूपेणाभिनिर्ऋत्तिः पाकतो हि तिक्तस्याकाशस्याप्रतिघातामूर्त्तिवेन तद्गुणपरिणामाभावेन प्रतिघातामूत्तिमतो वायोगंणपरिणामे तेजोगुणयोगात् कडुभावनिष्पत्तिरिति । इत्थञ्च रसपाकाभिप्रायेण त्रिधा पाक उक्तः । सुश्रते भूतगणपाकाभिप्रायेण द्विधा पाक उक्तो गुरुश्च लघुश्चेति क्रमेण मधुरसंशः कटुसंज्ञः । इति । इत्येवं भूतगुणपाके रसपाके चाबलवन्तो बलवतां वशमापद्यमाना नाभिव्यज्यन्ते । बलवन्तश्चाबलवतोऽवजित्याधिकखेनाभिव्यज्यन्ते । इति सव्र्व्वमतानि साधूनि । वक्ष्यते हि “विरुद्धगुणसमवाये भूयसाल्पमवजीयते" इति । इमे मधुराम्लकटरूपेण रसानां त्रयो विपाकावरमपरिणामा रसाख्या आद्यधातौ गणा भवन्ति । न तु पाकारम्भ
For Private and Personal Use Only