________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ भात्रेयभद्रकाप्योयः इति चेत् तहिं कः पाकोऽम्लस्य तोयाग्निगुणभूयिष्ठस्य ? भूम्यग्निगुणवहुलस्य सुश्रुतोक्तस्य लवणस्य कपायस्य तु पवनपृथिवीगुणबहुलस्य च कः पाक इति । मधुरकटुपाकव्यतिरिक्तपाकस्वीकारमन्तरेण नोपपत्तिः स्यादिति । य एवाग्लपाकश्चरकेणोक्तः स सुश्रतेनोष्णवीय्यमुच्यते ततस्तन्त्रकारयोर्न विरोधः । सुश्र तेनाम्लपाको यत् खण्डितः पित्तं हि विदग्धमम्लतामुपैत्यग्नेमेन्दखात्, तदनभुपगमान्निरस्तमिति। एष सिद्धान्तो न मनोरमः स्यात् । यदि हि व्रीहिकुलत्थादीनामम्लपाक उपलभ्यते तदा पाकस्य त्रैविध्ये सिद्धे सुश्रतोक्तद्वैविध्यं व्याहन्यते। तदर्थमम्लपाको वीर्यमुष्ण इति वचनमयुक्तम् । वीर्येण रसविपाकाभिभवात् । लवणकटुकद्रव्ययोरपुप्रष्णवीय्यमस्ति किमर्थ तद्विपाकः स्वीकृत इति ? अथात्र ब्रूमः। वहन्दिन विदग्धस्य पित्तस्य अम्लखे भुक्तानां षड़सानामम्लः पाकः। स चेदिष्टस्तदा कफस्य विदग्धस्य लवणखे भुक्तानां पड़सानां लवणः पाकश्चतुर्थ एव स्वीकार्यः स्यादिति वचनेन भूतगुणादागमाच्चेति वचनेन च तेषां त्रिविधपाकः प्रत्याख्यातः । ये केचित् षड़सस्याहारस्य प्राकृतवैकारिकसाधारणखेन त्रिविधः पाको मधुरोऽम्लः कटुकश्चेत्याहुः ; ये चैके प्रतिरसं पाक इत्याहुः ; न तु पड़सस्याहारस्य भुक्तस्य पण्णां रसानां मध्ये कुटुतिक्तकपायाणां प्रायशोऽवैकारिकः कटुर्विपाकोऽम्लस्य अम्लो मधुरलवणयोर्मधुर इति पाकत्रयं प्रत्याख्यातम् । जतूकणेनाप्युक्तकदादीणां कटुर्विपाकोऽम्लोऽम्लस्य शेषयोमधुर इति। तथा च पड़सेषु द्रव्येषु भुक्तेषु येषु पच्यमानेषु अम्बुपृथिव्योगव्योर्गुणा गुरुखरादयो द्रवादयोऽधिका व्यक्तखेनाभिनिर्वत्तेन्ते सजातीयरूपान्तरखेन निष्पद्यन्ते, तत्र द्रव्येषु स पाको मधुरो नामोच्यते स गुरुः पाक उच्यते, गुरुगुणसाधम्यादम्बुपृथिव्योः। तस्मादत्र मधुरशब्दो गुरुपाके पारिभाषिको न तु मधुररसाख्ये पाके। त्रयो हि रसा मधुरकपायलवणा गुरव उक्ताः। उत्तयमध्यमावरास्ते तत्तद्रसद्रव्याणि तथैव गुरूणि तथैव चिरमध्यावरकाले पच्यन्त इति गुरुपाक उक्तः, न तु मधुरलवणयोः रसमात्रयोः पाको मधुर उक्तः । इह तु मधुररसद्रव्यलवणरसद्रव्ययोः पच्यमानयोमेधुरो रसो लवणश्च रसो मधुरविशेषरूपेण पच्यते । तत्र मधुररससहचरिताः स्निग्धगुरुशीताश्च तद्विशेषेण नितरां पच्यन्ते। लवणरससहचरितास्तु गुरुः स्निग्ध उष्णश्चेति त्रयोऽपि विपाकलक्षणन्तु जठराग्नियोगादाहारस्य निष्ठाकाले यो गुण उत्पद्यते, स विपाकः, वचनं हि "जाठरेणाग्निना योगाद् यदुदेति रसान्तरम्। आहारपरिणामान्ते स विपाक इति स्मृतः ॥५९॥
For Private and Personal Use Only