________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः
सूत्रस्थानम् । वर्तते। प्रायश इत्यनेन कणाशुण्ठयादीनां कटूनां कटुरसस्य मधुरः पाकः। पटोलपत्रवेत्राग्रादीनाश्च तिक्तानां तिक्तरसस्य च मधुरः पाकः । तथा हरीतक्यादीनां कपायद्रव्याणां कषायरसस्य मधुरः पाको न विरुध्यते । एवमम्लो रसोऽम्लं पच्यते । प्रायशोऽम्लो रसोऽम्लविशेषरूपेणाभिनिष्पन्नः संस्तत्र रसधातौ वर्तते। प्रायश इत्यनेनामलकस्याम्लस्याम्लो रसो मधुरः पच्यते। इति न विरुध्यते। तथा स्वादुमधुरं लवणस्तथा। स्वादुमधुरो रसः प्रायशो मधुरं यथा स्यात् तथा विपच्यते । मथुरविशेषरूपेणाभिनिष्पन्नः संस्तत्र रसाख्यधातो वत्तते। तथा लवणश्च रसो मवरं यथा स्यात् तथा प्रायशः पच्यते। मधुररसविशेषरूपेणाभिनिप्पन्नः संस्तत्र रसधातौ वत्तते। प्रायश इत्यनेनातसीतलं मधुराम्लं विपाके कटुकमिति। पांशुजं लवणं कटु। इति रसोपदेशेन कटपाकश्चोक्त इति विरोधः। अथ सुश्रुते दृश्यते तद्यथा-- "तत्राहुरन्य प्रतिरसं पाक इति। केचित् त्रिवियभिच्छन्ति मधुरमम्लं कटुकन इति। तत् तु न सम्यक्, भूतगुणादागपाच्च अम्लविपाको नास्ति। पित्तं हि विदग्धमम्लतामुपैति अग्नेमेन्दखात्। स यदावं लवणोऽप्यन्यः पाको भविष्यति। श्लेष्मा हि विदग्यो लवणतामुपैति । मधुरो मधुररसस्याम्लोऽम्लस्य। एवं सर्वेषामिति केचिदाहुः। दृष्टान्तञ्चोपदिशन्ति यथा-तावत् क्षीरं स्थालीगतमभिपच्यमानं मधुरमेव स्यान् तथा शालियवमुद्गादयः प्रकीर्णाः खभावमुत्तरकालेऽपि न परित्यजन्तीति तद्वत् । केचिद्वदन्ति अबलवन्तो बलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्त एषः। आगमे हि द्विविध एव पाको मधुरः कटुश्चेति । तयोर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति । तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भाति गुणसाधात् गुरुता लघुता च। पृथिव्यापश्च गव्यः शेषाणि लघूनि। तस्माद् द्विविध एव पाक इति । भवन्ति चात्र। द्रव्येषु पच्यमानेषु येवम्वुपथिवीगुणाः । निव्वंत्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ।। तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु । निवर्तन्ते. ऽधिकास्तत्र पाकः कटुक उच्यते ॥ इति।" तत् कथमत्राम्लविपाकवचनं सङ्गच्छत इति ? अत्रोच्यते कैश्चित्-ब्रीहिकुलत्थादीनायम्लपाक उपलभ्यते पित्तकोपलिङ्गेन । तथाम्बुपथिवीगुणानामाधिक्येनाभिनित्या मधुरः पाको गुरुरक्तः । तेजोवाय्याकाशगुणानामाधिक्येनाभिनित्ता कटुकः पाको लघुः पिप्पलीकुलत्यादीनां रसानुगुणपारितां दर्शयति ; कटुकादिशब्देन तदाधारं द्रव्यमुच्यते, यतः न रसाः पच्यन्ते, किन्तु द्रव्यमेव ; लवणस्तु तथेति लवणोऽपि मधुरविपाकप्राय इत्यर्थः ;
For Private and Personal Use Only