________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६४
चरक-संहिता। आत्रेयभद्रकाप्योयः परश्चातो विपाकानां लक्षणं संप्रवक्ष्यते। करतिक्तकषायाणां विपाकः प्रायशः कटुः ।
अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥ ५६ ॥ कस्मात्रोक्त मिति चेत् ? न। यथा हि लवणाम्लो गरुलाघवे तुल्यौ तथा तिक्तलबणो रुक्षस्निग्धाभ्यां तुल्यो कटुतिक्तो शीतोष्णाभ्यां तुल्यौ भवत इति तस्मात् क्रमभङ्गः। एवमपि कपायक टुतिक्तानामरूपात्यल्पस्निग्धवं प्रसज्यते । मधुरामललवणानामत्यल्पादिरुक्षवम्। लवणाम्लकटुकानामत्यल्पादिशीतवं प्रसज्यते । कटुतिक्तकषायाणामत्यल्पाप्रणवमिति । न च तत्तद्गुणस्तत्र तत्र वत्तते। तस्मादुक्तप्रकारेणोपदिष्टम् ॥५८ ॥
गङ्गाधरः---नन्वेते मधुरादयो यद्गुणकर्माण उक्ताः कथं तत्कलमभिनिष्पद्यत इति ? अतो विपाकमाह-परश्चात इत्यादि । अतः परञ्च विपाकानां लक्षणं सम्प्रवक्ष्यते यः पाकैः फलमभिनिष्पद्यते। तद् यथा-कट्टित्यादि । विपाक इति पाकः पचनं द्रव्याणां स्वरूपरसयोः परा वृत्तिः । सा च स्वरूपान्तर खेन रसान्तरखेन च परिणतिः। तस्या विशेषो विपाकः । जाठराग्नियोगेन भुक्तानां द्रव्याणां पाकेन जायमाने कि साररूपेण पृथक्वे यः सारभागो द्रवरूप आयो रसाख्यो धातुः किट्टभागश्च मूत्रपुरीषरूपो मलयातुश्च तद्रसमलधातुभूतरसान्तरवद्रव्यान्तरत्वेन भुक्तानां परिणतिविशेषोऽत्र विपाकः । उक्तञ्च-“जाठरेणाग्निना योगाद् यदुदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥” इति । कस्य रसस्य किं रसान्तरखेनोदयः परिणामः स्यादिति ? अत आह---"कटुतिक्तकपायाणां विपाकः प्रायशः कटुः” इति । भुक्तानां द्रव्याणां यः कटुस्तिक्तः कपायो वा रसः, स स रसः खलु जाठरेण अग्निना पच्यमानानां भुक्तानां द्रव्याणां रसाख्यधातुरूपेण परिणामे तत्पाकेन पच्यमानः सन प्रायशः कटुधिपाकः स्यात् । कटुश्च कविशेषेणाभिनिष्पन्नः संस्तत्र रसाख्ये धातौ वत्तेते । तिक्तश्च रसः कटुविशेषरूपेणाभिनिष्पन्नः संस्तत्र रसधातौ वत्तेते। कषायश्च कटविशेषरुपेणाभिनिष्पन्नः संस्तत्र रसधातो
रूवणस्यैव लाघवमुचितमिति, यतः न भूतनिवेशेन गौरवलाघवे शक्ये अवधारयितुम्, तथा हिसोयातिरेककृतो मधुरः पृथिव्यतिरेककृतात् कपायात गुरुर्भवति ॥ ५६-५८ ॥
चक्रपाणिः--सम्प्रति विपाकस्यापि रसरूपत्वालक्षणमाह-परमित्यादि । प्रायोग्रहणात्
For Private and Personal Use Only