________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्याय
सूत्रस्थानम् ।
६६३ अम्लात् कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः।। केविल्लघनामवरमिच्छन्ति लवणं रसम्। .
गौरवे लाघवे चैव सोऽवरस्तुभयोरपि ॥ ५८॥ सत् खानिलानलानाममूर्तानां लघुखमवजित्य मध्यमं गुरुव वर्त्तते । तस्मात् कषायादवरो गुरुलेवणः तोयाग्न्यतिरिक्तपञ्चभूतारब्धवात्। तत्र हि नानभूतानां लघुखावजये तोयस्याल्पगुरुवं भूमिगुरुवेनकीभूतपयल्पं वत्तेते। इति। ___ तर्हि चाम्लकटुतिक्ता लघव उक्तास्ते कि तुल्या न्यूनमध्याधिका वेति ? अत उच्यते-“अम्लात् कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः” इति । अम्लो रसो लघुरवरः। तस्मादम्लाल्लघोरुत्तमो लघुः कटुः। उत्तमाल्लघोः कटुकाटुत्तमो लघुस्तिक्त इतुत्तमोत्तमो लघुस्तिक्तः। तत्र हि भूम्यग्निभूयिष्ठपञ्च भूतारब्धवादम्लरसद्रव्ये न्यूनभूतानां भूम्यग्निभ्यां जये भूमेगु रुखमग्नेलघुतम् । तयोस्तुल्ययोरवजयाभावाल्लघुलमल्पम् । कटुरसद्रव्ये च वाय्वग्निभूयिष्ठपञ्चभूतारब्धवान्यनभूतावजयऽधिकाभ्यां वाय्वग्निभ्यां लघुभ्यां मध्यम लघुत्वं वत्तेते। यत आकाशात् स्थूलोऽग्निरिहारम्भकः । वाय्वाकाशातिरिक्तपञ्चभूतारम्भात् तु तिक्तोऽतिलघुः । वहिराकाशात् स्थूल इति वाय्वाकाशारब्धखादतिलघुस्तिक्त इति। अत्र केचिद् यदाहुस्तत् दर्शयति-केचिदित्यादि । अमूनां लघूनां मध्ये लवणमवरं लघुकेचिदिच्छन्ति न खम्लमवरं लघुमिच्छन्ति । ततो गुरूणामवरमम्लमिच्छन्तीति तथालेऽपि न विरोधः स्यात् ॥ ५७॥ __ कस्मादिति ? अत उच्यते--गौरवे इत्यादि। अस्माकं सोऽम्लो गौरवेऽवरः सन् लाघवे चैवावरो भवेदित्युभयोरपि सोऽम्लो लवणश्चावर इति । तथा च यथाम्लो गुरुस्तथा लवणो गुरुर्यथा चाम्लो लघुस्तथा लवणो लघुरिति गुरुलाघवे तुल्यौ भवतोऽम्ललवणाविति। तथा सति-कषायकटुतिक्तलवणाम्लमथुरा उत्तरोत्तरं स्नेहाधिकाः पूर्वपूर्व रुक्षाधिकाः। लवणाम्लकटुतिक्तकषायमधुराः उत्तरोत्तरं शीताः पूर्वपूर्वमुष्णा अधिका इत्येवं
एकीयमतमाह-केचिदित्यादि। एकीयमतं वचनभङ्गया स्त्री कुर्वन्नाह-गौरव इत्यादि। एतेन गौरवे लाघवे चावरत्वं लवणस्य स्वीकुर्वन् गौरवेऽवर इत्यनेनाम्लकटुतिक्तभ्यो गुरुत्वं स्वीकरोति लवणस्य, लाघवे चावर इत्यनेनाम्लादपि लघुनोऽल्पं लाघवं लवणस्य स्त्रीकरोति ; न च वाच्यम्, अम्ले पृथिवी कारणं लवणे तु तोयं, ततः पृथिव्यपेक्षया तोयजन्यस्य
For Private and Personal Use Only