________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
चरक-संहिता। । आत्रेयभद्रकाप्यीयः तिक्तात् कषायो मधुरः शीताच्छीततरः परः * ।
स्वादुर्गुरुत्वादधिकः कषायालवणोऽवरः ॥ भूम्यग्निभ्याश्चारभ्यमाणेऽम्लरसद्रव्येऽधिकाभ्यां भूम्यग्निभ्यां शेषाणामवजये भूमिगततोयस्नेहेन सह तोयभूतस्य न्यूनस्य च स्नेह एकीभूतोऽग्निभूतस्य भूयिष्ठस्य रुक्षगुणेन प्रबलेनाल्पावजये मध्यमः स्नेहो वर्त्तते। लवणस्वन्तयो रसः स्नेहानिरुच्यते । स्निग्धानां मधुरामललवणानां मध्ये लवणो रसः स्नेहात् अन्त्यो जघन्यः, तोयामिभूयिष्ठपञ्चभूतारब्धवात् । तत्र हि न्यूनैराकाशवायुपृथिवीभूतैरधिकाभ्याश्च तोयामिभ्यामारभ्यमाणे लवणरसद्रव्ये तोयाग्निभ्यां शेषाणां नानानामवजये तोयस्नेहोऽग्ने रुक्षस्य तुल्यवेन भूमिगततोयस्नेहेन युक्तोऽधिकबलः सन्नल्पः स्नेहो वत्तेते इति । __ अथ तिक्तकषायमधुराः शीता उक्तास्ते किं तुल्या नूनमध्याधिका वा स्युरिति ? अत उच्यते-“तिक्तात् कषायो मधुरः शीताच्छीततरः परः” इति । शीतात् तिक्ताच्छीततरः कषायो मध्यमशीतः। परो मधर उत्तमः शीतः । कस्मात् ? सोमगुणातिरिक्तपञ्चभूतारब्धवान्मधुरस्य। भूवायुभूयिष्ठपञ्च भूतारब्धवात् कषायस्य । खवायुगणभूयिष्ठपञ्चभूतारब्धवात तिक्तस्य। तत्र हि सोमभूतगणशीतस्य तोयवाय्वोभू मिगततोयस्थस्याधिक्यान्मधुरद्रव्येऽधिक शैत्यम् । कपायरसद्रव्ये पवनस्य शैत्यं बलवद् भूगततोयशैत्यं मध्यं तोयभूतस्य शैत्यमल्पमिति वह्न रुष्णखावजये मध्ममशैत्यं वत्तते। तिक्त रसद्रव्ये तु वायोः शैत्यं प्रबलं तोयस्य भूगततोयस्य च शैत्यमल्पमेकीभूतमग्नेरुष्णावजये खल्पं शैत्यं शेषं स्यादिति। एवं तहि मधुरामललवणा गुरव उक्तास्तेऽपि कि तुल्या नानमध्याधिका वा वर्तन्त इति ? अत उच्यते-स्वादुगरुखादधिक इति । मरूणां मधराम्ललवणानां मध्ये स्वादुमधुरो गुरुवादधिकः सोमातिरिक्तपञ्चभूतारब्धवात् । तत्र हि तोयस्य भूमितो लघोविग्न्याकाशेभ्यो गुरोः भूमेश्च गरोगो रवैक्यादधिकमेव गुरुवम् । कपायाल्लवणोऽवर इति-कषायो गुरुवान्मध्यमः पवनपृथिव्यतिरिक्तपञ्चभूतारब्धवात् । तत्र हि नानभूतावजये भूमिगततोयस्यालघुवाद गुरुखरूपं गुरुवं भूमिगरुत्वेन मिलितं प्रबलं लबणोऽवर इति गुरुत्वेनेत्यर्थः। अग्लात् कटुरित्यादावम्लात् कटुर्लघुः, ततः कटुकात् लाघवेन भालादुत्तमात् तिक्तो लछुत्वेनोत्तमोत्तमः, उत्तमात् कटुकादुत्तमोत्तमः । * "मध्योत्कृष्टावराः शैत्यात् कषायस्वातितकाः" इति पाठान्तरम् ।
For Private and Personal Use Only