________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
६६१
सूत्रस्थानम् । मध्योऽम्लः कः कश्चान्त्यः स्निग्धानां मधुरः परः ।
म योऽम्ला लवणश्चान्त्यो रसः स्नेहान्निरुच्यते॥ वाय्वाकाशातिरिक्तपञ्चभतारब्धत्वात्। तत्र हि न्यूनः पृथिव्यप्तेजोभिरधिकाभ्यां वाग्वाकाशाभ्याञ्चारभ्यमाणे तिक्तरसद्रव्ये भूयसा वायुनाल्पानां गणाव नयेऽपां स्नेहावजयशेषोऽल्पो रुक्षो वर्तते। तत्राकाशस्यामूर्तस्य साहाय्ये बलाल्पवादिति। अथोष्णा लवणामलकटुका उक्तास्ते किं तुल्या उष्णा न्यूनाधिका वेति ? अत उच्यते - तोरणानामुष्णखाल्लवणः परः । इति । उष्णानां लवणाम्लकटुकानां मध्य लवण उपणखात् परः श्रेष्ठः, तोयाग्निगुणभूयिष्ठपञ्चभूतारव्यखाम् । तत्र हि न्यूनः पृथिवीवाय्वाकाशेर्भूयिष्ठाभ्यां तोयाग्निभ्याम् आरभ्यमाणे लवणद्रव्ये भयिष्ठाभ्यां तोयाग्निभ्यां न्यूनानां शेषाणाम् अनुष्णानामवजयादुष्णो गुणोऽधिको वत्तेते। तोयगणेनापि तुल्येन शीतगणन अवजयाभावात् । तेषामुप्णानां मध्येऽलस्तूप्णखान्मध्यमः । भूम्यग्निभयिष्ठपश्चभूतारब्धखात्। तत्रापि न्यूनराकाशवायुतोयरधिकाभ्यां भूम्यग्निभ्यामारभ्यमाणेऽम्लरसद्रव्ये भूम्यग्निभ्यां शेषाणामवजये तोयगुणावजयतो मध्यम उष्णोऽग्नवत्तते नाधिक इति। कटुकश्चान्त्यः। तेपामुष्णानां लवणाम्लकटना मध्ये कटुकोऽन्त्य उष्णवादल्प उष्णः, वाय्वग्निभूयिष्ठपञ्चभूतारब्धखात् । तत्र हि न्यूनराकाशाम्बुपृथिवीभूतैरधिकाभ्यां वाय्वग्निभ्यामारभ्यमाणे द्रव्ये कटुरसे वाय्वग्निभ्यां शेषाणामवजये तोयस्य शैत्येन सह वायोः शैत्यमग्निगुणोष्णस्य तुल्यमेकीभूतं प्रवलं भवति । तेन प्रबलेन शैत्येनानिगुणोष्ण्यं किञ्चिज्जिताव शिष्टमल्पं वत्तेते न खधिकम् । अथ तहि मधुरामललवणाः स्निग्धा उक्तास्तेऽपि कि तुल्या अथ किं न्यूनमध्याधिका वत्तेन्त इति ? अत उच्यते--स्निग्धानां मधुरः पर इति । हिग्धानां मध राम्ललवणानां मध्ये मधुरो रसः स्नेहात् परः उत्तमः स्निग्धः, सोमगुणातिरिक्तपञ्चभूतारब्धत्वात् । तत्र हि नानैराकाशवाय्वग्निभूमिगणरारभ्यमाणे मध ररसद्रव्ये भूमिगततोयाधिकभूतगणाभ्यामेकीभूताभ्यां प्रबलाभ्यामधिकस्निग्धाभ्यां शेषाणामवजये वाय्वादिरौक्ष्यस्यावलस्यावजयादधिकः स्नेहो वत्तेते। मध्योऽम्लो रसस्तेषां स्निग्धानां मधुरामललवणानां मध्येऽम्लो रसः स्नेहगणतो मध्यः स्निग्धः । भूम्यग्निगुणभूयिष्ठपञ्चभूतारब्धवात् । तत्र हि नानराकाशवाय्वम्युभिरधिकाभ्यां रुक्षतमः, तिक्तो रुक्षः, कटुस्तु मध्यो रुक्षतरः ; एवमन्यत्रापि । कटुकश्चान्त्य इत्यवर इत्यर्थः ।
१२१
For Private and Personal Use Only