________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। ( आत्रेयभद्रकाप्यीयः तस्माद रसोपदेशेन न सव्वं द्रव्यमादिशेत् । दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम् ॥ ५७ ॥ रौक्ष्यात् कषायो रुक्षाणामुत्तमो मध्यमः कटुः । तिक्तोऽवरस्तथोष्णानामुष्णत्वालवणः परः॥
कटुपाकात् स्तम्भनः। सोमगुणः स्तम्भनश्च शीतश्च। अभयायां हरीतक्यां विपय्येयो रेचनश्चोष्णश्च । इति वीर्यतो विपरीता कपाया हरीतकी पाकतश्च विपरीता रेचनखात्। तस्मात् सव्वं द्रव्यं न रसोपदेशेनादिशेन् । यत्तु शीतवीय्यमधुररसमधरपाकं तन्मधररसोपदेशन आदिशेन् । यच्चोष्णवीर्याम्लरसाम्लपाकं तदप्यम्लरसोपदेशेनादिशेत्। एवं यदुष्णवीय्यंकटुरसकटुपाकं तदपि कटरसोपदेशेनादिशेदेति निगमनम् । इति ॥५६॥५७॥
गङ्गाधरः—अथैषां मधुरादीनां गुरुलघुशीतोष्णस्निग्धरुक्षाणां न्यूनमध्याधिक्यानि सन्ति न वेति ? अत आह-रौक्ष्यादित्यादि। रुक्षाणाम् उक्तानां कषायकटुतिक्तानां मध्ये कपायो रसो रौक्ष्यादुत्तमो रुक्षः। पवनपृथिव्यतिरिक्तपञ्चभूतारब्धखात्। तत्र हि न्यूनः खान्यम्बुभिरधिकाम्यां पवनपृथिवीभ्यामारम्यमाणे कायें भूयसाल्पावजयात् भूयस्योश्च पवनपृथिव्योः पृथिव्या विरोधिगुणाभावात्, पवनस्य रोक्ष्यगुणस्यावजयाभावात् पोषणाच्च रौक्ष्यमधिकं कषायरसद्रव्ये भवतीति। कटुस्तु तेषां रुक्षाणां कषायकटुतिक्तानां मध्ये रौक्ष्यान्मध्यमो रुक्षः, वाय्वग्निभूयिष्ठपञ्चभूतारब्धखात्। तत्र हि न्यूनः पृथिव्यम्युगगनैरधिकाभ्यां वाय्वग्निभ्यामारभ्यमाणे कटुरसद्रव्ये भूयिष्ठाभ्यां वाय्वनिगुणाभ्यामल्पानां शेषाणां गुणावजये भूयिष्ठयोई योरेव वाय्वग्न्यो रौक्ष्यगुणावेकीभूय मध्यमो रोक्ष्यगुणो भवति । कथं नाधिकः स्यात् ? उच्यते भ्रयिष्ठयोवनयोरुभयो रोक्ष्येऽपि मृत्तखाभावेनाल्पबलात् स्निग्धगणानामपाम अंशस्यात्र पृथिव्याकाशाभ्यामधिकस्य स्निग्धगणस्य निःशेषेणावजये वाय्यग्न्यो रौक्ष्यं मध्यमं भवति। कषायद्रव्यारम्भे तु पवनपृथिवीभ्यां भूयसीभ्याम् अमूत्तमूर्ताभ्यां प्रबलाभ्यामपां स्नेहावजये शेषोऽधिक एव रौक्ष्यगुणो वर्तते। इति । तेषामेव रुक्षाणां कषायकटुतिक्तानां मध्ये तिक्तो रसो रोक्ष्यादवरः,
ऽन्यथेति अभयायां कषायो रसो भेदनश्चोष्णश्चेत्यर्थः। रौक्ष्यादिति रोक्ष्येण कषाय उत्तम इति
For Private and Personal Use Only