________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः! सूत्रस्थानम् ।
५६ लवणं सैन्धवं नोष्णमम्लमामलकं तथा । अर्कागुरुगुचीनां तिक्तानामौष्ण्यमुच्यते ॥ ५५ ॥ किञ्चिदम्लं हि संग्राहि किञ्चिदम्लं भिनत्ति च । यथा कपित्थं संग्राहि भेदि चामलकं तथा ॥ पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते ।
कषायः स्तम्भनः शीतः सोऽभयायाभतोऽन्यथा ॥ ५६ ॥ किञ्चित् द्रव्यं कषायं तिक्तमेव च किश्चिद् द्रव्यं यथा वृहत्पश्चमूलं वीर्यत उष्णं तद्वीय्यत उपदेश्यते। कषायतिक्तो शीतावुक्तौ। ननु तिक्तकपाययोः पाक एकान्तेन कटुस्तेन तयो रसोपदेशेन गुणसंग्रहो निद्देश्यः कुतो नोक्त इति चेत् ? न ; रसपाकवीर्याणामसामान्यात् । प्रायेण हि तिक्तकषाययोः शीतं वीव्य कटुः पाक इति। अपरमुदाहरति-लवणमित्यादि। सर्व लवणमत्यर्थ गुरु स्निग्धमुरणं सैन्धवन्तु लवणं नोष्णवीर्यम् । तथा सव्वेमम्लमुष्णं लघुस्निग्धमामलकमम्लं नोष्णमिति वीय्यतो विपरीतं वीर्यतो निद्देश्यम् । तथाांगरुगडचीनां तिक्तानामौप्णावीयं न शीतं सव्वं तिक्त शीतमुक्तमिति । वीर्य्यतोऽोदय उपदेश्याः॥५५॥
गङ्गाधरः-इति वीय्यतो विपरीतान्युदाहृत्य पाकतोऽमुमुदाहरतिकिश्चिदम्लमित्यादि। अम्लस्याम्लपाके सृष्टविण्मूत्रता कम। तत्र किश्चिदम्लं द्रव्यं संग्राहि यथा कपित्थं फलं संग्राहि, तेनानुमीयते कपित्थं कटुपाकम् । वक्ष्यते हि-"शुक्रहा बद्धविण्मत्रो विपाके बातलः कटुः” इति तस्मात् पाकत उपदेक्ष्यते द्रव्यम्। आमलकश्चाम्लं भेदि शीतञ्च तस्मात् पाकतोऽविपरीतं वीरयेतो विपरीतं वीरयेत उपदेक्ष्यते । एवं सर्च कटु द्रव्यं कटपाकादुष्णशुक्रघ्नखादवृष्यम् । पिप्पलीनागरन्तु दृष्यम् तस्मान्मधुरपाकञ्च । पाकतो विपरीतं पाकत उपदेक्ष्यते। कषायः सर्वः स्तम्भनः शीतश्च ।
किञ्चित्कपायञ्चोष्णं तिक्तञ्चोष्णमिात योजना, कषायतिक्तलवणादीनामुदाहरणमसूनितानामपि प्रकरणात् कृतम् ; महत् पञ्चमूलं विल्वादि पञ्चमूलमिह, एतच्च तिक्तत्य कषायस्य चोष्णताया उदाहरणम् ; अब्जानूपामिषन्तु मधुरस्योष्णवीय॑त्वेन ॥ ५५ ॥
चक्रपाणिः-वीर्यप्रसङ्गादन्यदप्यम्लादीनां विरुद्धगुणमाह-किञ्चिदित्यादि। अभयायामतो
For Private and Personal Use Only