________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
चरक-संहिता। (आत्रेयभद्रकाप्यीयः यथा पयो यथा सपिर्यथा बा चव्यचित्रको। एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक ॥ ५४॥ मधुरं किञ्चिदुष्णं स्यात् कषायं तिक्तमेव च।
यथा महत् पञ्चमूलं यथा वानूपमामिषम् * ॥ सूक्ष्मस्पर्शगुणानामग्नेरुष्णतीक्ष्णमूक्ष्मलघुरुक्षविशदरूपगुणानां मेलनेन यादृशलघुखादयो भवन्ति तादृशानां तेषां गुणानां संग्रहो निर्देश्यः। विपरीतानां वीटग्रतः पाकतश्च विपरीतानां मधुराम्लकटुकानां वीय्यतः पाकतचोपदेक्ष्यते गुणसंग्रह इति । यच्च व्याख्यायते यद्रव्यं रसपाकयोर्मधुरं तद्वीप्येण शीतं, यच्च रसपाकयोरम्ल तद्वीयेणोष्णं, यच्च रसपाकयोः कटुकं तद्वीय्येणोष्णमिति। तदयुक्तम् । तेषां रसोपदेशेन निदेश्यो गुणसंग्रह इति वचनस्यासङ्गतः ॥ ५३॥
गङ्गाधरः-तथा च शीतवीर्यमधुररसमधुरपाकद्रव्याणां मधुररसोपदेशेन गुणसंग्रहः-यथा पयो यथा च समिधरं स्निग्धगुरुशीतादिकम्, एवमुष्णवीर्याम्लरसाम्लपाकद्रव्याणामम्लरसोपदेशेन गणसंग्रहो यथा-भव्यं चालिताफलमम्लं तेन लघूप्णस्निग्धखादिसंग्रहः, एवमुष्णवीट्येकटुरसकटपाकद्रव्याणां कटुरसोपदेशेन शेषगुणसंग्रहो यथा-चव्यचित्रको । तत्र चित्रकः-“कटुकः कटुकः पाके वीोणश्चित्रको मतः” इति वक्ष्यते । तेन लघूष्णरुक्षादीनामपि संग्रहः। एवमादीनि चान्यानि शीतवीर्यमधुररसमथुरपाकाणि द्रव्याणि मधुररसतो यथा तथोप्णवीम्लिरसाम्लपाकानि द्रव्याणि चाम्लरसतस्तथोष्णवीय्येकटुरसकटुपाकानि द्रव्याणि कटुरसतो भिषग गणतो निद्दिशेत् ॥५४॥
गङ्गाधरः-वीय्यतो विपाकतश्च विपरीतानां मधुराम्ललवणकतिक्तकषायाणां वीय्येतश्च पाकतचोपदेशो यथा तदाह-मधुरमित्यादि । किश्चिद्रव्यं यथानूपमामिषं मधुरं वीर्यंत उष्णं तद्वीप्यतो रसतश्च निर्देश्यम्। तथा कटुकाया अपि विपरीतमधुरपाकित्वम्, न तत्र कटुकरसवेनोप्णत्वमित्यर्थः ; अस्मिंश्च पक्षे "उपदेक्ष्यते” इति “यथा पयः” इत्यादिना सम्बध्यते। तान्येवाविपरीतवीर्यविपाकान्याहयथा पय इत्यादि। पयःप्रभृतीनि हि द्रव्यगुणकथनेनाविन्द्रवीर्यविपाकान्युपदेष्टव्यानि ॥५४॥
चक्रपाणिः-सम्प्रति यत्र विरुद्धवीर्यविपाकरसेनोप्णत्वादि निर्देश्यं तदाह-मधुरमित्यादि। * यथाब्जानूपमामिषमिति चक्रतः पाठः ।
For Private and Personal Use Only