________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
सूत्रस्थानम् । तेषां रसोपदेशेन निर्देश्यो गुणसंग्रहः ।
वीय्यतो विपरीतानां * पाकतश्चोपदेक्ष्यते ॥ देशेन मधुरमित्युपदेशेन निद्देश्यो निर्देशः कत्तव्यो बुद्धिमद्भिः। सोमगुणातिरेकात् पञ्चभूतारब्धद्रव्ये मधुरो रसोऽभिव्यज्यते इत्युक्त्या तन्मधुररससहचरितास्तु नियता गुणाः स्निग्धगुरुशीताः। स्वादुमधुरं पच्यते इति च वक्ष्यते, तेन मधुररसोपदेशेन शीतवीरयेमधुरविपाको शेयौ। पृथिव्यामम्बुप्रवेशे तदुभयाजाता गुणा गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धास्तथापां द्रवस्निग्धशीतमन्दसरसान्द्रमृदुपिच्छिला गुणा इत्येपां गुणानां संग्रहो निद्देश्यो भवति ।
तथा यद्रव्यं तयो रसपाकयोरम्लं वीर्येणोष्णं तस्यापि रसोपदेशेनाम्लरसोपदेशेन गुणसंग्रहो निद्देश्यः। भूम्यग्निगुणभूयिष्ठखादम्लः स च लघुरुष्णः स्निग्ध इत्युक्त्या तथा अम्लोऽम्लं पच्यते इत्युक्त्याम्ल इति रसमात्रोपदेशेनोष्णवीर्याम्लरसपाकलघुस्निग्धा ज्ञयाः । तथापि भुम्यग्न्योरनभिभवाच्च शेषा गुणा ये भूमे रुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धाः, अग्नेश्च ये उष्णतीक्ष्णसूक्ष्मलघुरुक्षविशदरूपाणि गुणास्तेषामपि गुणानां संग्रहो निर्देश्यः।
एवं यच्च द्रव्यं वीर्येणोष्णं तयो रसपाकयोः कटुकं मरिचादिकं तस्यापि कटुरसोपदेशेन गुणानां संग्रहो निद्देश्यः । वाय्वमिगुणभूयिष्ठखात् कटुकः, स च लघुरुष्णो रुक्षश्चेत्युक्त्या कटुतिक्तकपायाणां विपाकः प्रायशः कटुरित्युक्त्या च कटुकमितिमात्रोपदेशेन लघुरुक्षोष्णवीय्येकदुरसपाका ज्ञ याः। तत्रापि शेषाणां वाय्वग्निगुणानां वायोलघुशीतरुक्षखरविशद
वक्तव्ये यद रसपाकयोरिति करोति, तन्मधुररसोचितपाकस्यैव द्रव्यस्य शीतवीर्य्यताप्राप्त्यर्थम् ; एवमम्लकटुकयोरपि वाच्यम् ।।
तेषामिति मधुरपाकादीनाम, रसोपदेशेनेति रसमात्रकथनेनैव, यतः विपाकोऽपि रसत एव प्रायो ज्ञायते, यद् वक्ष्यति- "कटुतिक्तकषायाणां विपाकः प्रायशः कटुः" इत्यादि ; एतच्च न सर्वत्रेत्याह-वीर्यत इत्यादि। वीर्य्यतोऽविपरीतानां रसद्वारा वीर्यज्ञानम्, न तु रसविरुद्धवीर्याणाम् , यथा-महापञ्चमूलादीनाम् ; न केवलं रसेन, किं तर्हि पाकत उपदेक्ष्यते। गुणसग्रहः- "शुक्रहा बद्धविष्मूत्रो विपाको वातलः कटुः” इत्यादिना, स च वीर्य्यतोऽविरुद्धानां विज्ञेयः, यदि तत्र वीर्य विरोधि स्यात्, तदा विपाकोऽपि यथोक्तगुणकारी न स्यात् ; किंवा, पाकतश्चाविपरीतानां रसोपदेशेन गुणसंग्रहः शीतोष्णलक्षणो निर्देश्यः ;-यस्यास्तु पिप्पल्याः
* वीर्यतोऽविपरीतानामिति चक्रः ।
For Private and Personal Use Only