________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
चरक-संहिता। [ आत्रयभद्रकाप्यीयः एवमेते षडू रसाः पृथकत्वेनकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकारका भवन्त्यध्यात्मलोकस्य, अपकारकाः पुनरतोऽन्यथा भवन्ति उपयुज्यमानाः, तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति ॥ ५३॥
भवन्ति चात्र। शीतं वीर्येण यद् द्रव्यं मधुरं रसपाकयोः ।
तयोरम्लं यदुष्णश्च यच्चोष्णं कटुकं तयोः * ॥ द्विद्विभूताधिकद्रव्याणि पृथक् षड़सभेदेनोक्तानि । एषु च शीतोष्णगुरुलघुस्निग्धरुक्षाः प्राधान्येनोक्ता यथारसं यथाभूतगुणाश्च प्राधान्येन खरविशदादयोऽनुक्ता अपि तत्तद द्विद्विभूतगुणा उन्नयाः। य उक्ता एकैकपृथिव्यादिभूतबहुलपञ्चभूतात्मकानां पार्थिवादीनां पञ्चानां द्विरसादीनां द्रव्याणाश्च गुणा यथारसं भूतगुणा उन्नेयाः ॥ ५२ ॥
गङ्गाधरः-उपसंहरति-एवमेत इत्यादि। एवमुक्त प्रकारेणैते पडसाः पृथक्त्वेनैकैकशो मात्रया मात्रया खलूपयुज्यमाना एकखेन वा मिलितखेन वा मात्रश उपयुज्यमाना अध्यात्मलोकस्यात्मानमधिकृत्य वर्तमानस्य लोकस्योपकाराय भवन्ति। अपकारकाः पुनरतोऽन्यथा खल्वमात्रया खेकखेनातिमात्रादित उपयुज्यमाना भवन्तीति तान् विद्वान ज्ञाखा उपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति ॥५३॥
गङ्गाधरः-अथैषां द्रव्याणाम् आरम्भकभूतन्यूनमध्याधिकतरतमादिभेदेन असङ्के प्रयानां गुणकम्मोपदेशो यथा कर्तव्यस्तत्राह श्लोकान्-भवन्ति चात्रेति । शीतमित्यादि । यद्व्यं वीय्येण शीतं रसपाकयोर्मधुरं तस्य गुणसंग्रहो रसोप__ चक्रपाणिः-पृथक्त्वेनेति एकैकशा मात्रशः ; एकत्वेनेत्येकीकृत्य समुदयं मात्रश इत्यर्थः ; मात्रश इति मात्रया ; तच्चैकीकरणं द्विव्यादिभिः सव्वै यम् ; अध्यात्मलोकस्येति सर्वप्राणिजनस्य ; अन्यथेति अमात्रया ॥५३॥ ___ चक्रपाणिः-सम्प्रति रसद्वारेणेव द्रव्याणां वीर्यमाह-शीतमित्यादि। यद्व्यं रसे पाके च मधुरम्, तच्छीतं वीर्येण ज्ञेयम् ; तथा तयोरिति रसपाक्योर्यदम्लं द्रव्यम्, तदुष्णं वीर्येण ; तथा यच्च द्रव्यं तयोरिति रसपाकयोः कटुकमुक्तम्, तच्चोष्णं वीर्येण ; स्यादिति शेषः ; किंवा यच्चोष्णं कटुकं तयोरिति पाठः ; अत्र यद् रसतो मधुरं तवीर्यतः शीतमिति * यद द्रव्यं कटुकं तयोरिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only