________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ अध्यायः
६५५
सूत्रस्थानम् । कषाया रसः संशमनः संग्राही संधारणः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मपित्तरक्तशमनः शरीरवलेदस्योपयोक्ता रुक्षः शीतो गुरुश्च ॥५१॥ ___ स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति हृदयं पीडयत्युदरमाध्मापयति वाचं निगृह्णाति स्रोतांस्यवबध्नाति श्यावत्वमुपादयति पुंस्त्वमुपहन्ति विष्टभ्य जरयति * वातसूत्ररेतःपुरीपाण्यवगृह्णाति बलमादत्ते कर्षयति म्लापयति तर्पयति स्तम्भयति खर्रावशदरुक्षत्वात् पक्षबधग्रहापतानकादितप्रभृतींश्च वातजान् विकारानुपजनयति ॥५२॥
गङ्गाधरः-वायवीयवसाधात् कषायरसमाह-कषायो रस इत्यादि । संशमन इति-"न शोधयति यद दोषान समान नोदीरयत्यपि । शमीकरोति च क्रद्धांस्तत् संशमनमुच्यते ॥” इति। संग्राही चलद्रवधातुसंक्षेपकारी। सन्धारणश्चलत्स्तम्भनकारी। पीड़न आकृष्य सङ्कोचकरः। रोपणः व्रणस्य मांसादिपूरणः। शोषणः क्लेदादीनां शुष्कताकरः। स्तम्भनः स्खलतां चलतां वा भावानां स्थिरीकरणः। श्लेष्मपित्तरक्तानां प्रशमनः। शरीरक्लेदस्योपयोक्ता आचूपणः। इत्येतानि कषायरसद्रव्यस्य कर्माणि । गुणाश्च तद्रससमानाधिकरणा रुक्षः शीतो गुरुश्चेति त्रयः॥५१॥
गङ्गाधरः-स एवमित्यादि । सम्यग योगादेवंगुणकर्मापि कषायो रसः स एक एव रसान्तरयोगमन्तरेणात्यर्थमुपयुज्यमानः। आस्यं शोषयति । हृदयं पीड़यति । वाचं निगृह्णाति कण्ठबन्धात् । स्रोतांस्यवबन्नाति रुणद्धि । श्यावख शरीरादेरुपपादयति । स्वमुपहन्ति कटुविपाकप्रभावात् । विष्टभ्य भुक्तान्तरं जरां गच्छति । वातादीनवगृह्णाति । बलमादत्ते गृह्णाति । कर्षयति शरीरधातून । म्लापयति कान्तिक्षयं करोति । स्तम्भयति द्रवचलान् भावान्। अपि च खरादिखात् पक्षबधादीन् वातजान विकारानुपजनयति । इति। इत्येवं कादि कार्यमुन्नेयम् । ग्लपयति हर्षक्षयं करोति । पीड़नो व्रणपीड़नः, शरीरक्लेदस्योपयोक्तति आचूषकः, शीतो लघुश्चेत्यकारप्रश्लेषादलघुः ; अवगृह्णातीति बद्धानि करोति ॥ ४७--५२ ॥ * विष्टभ्य जरां गच्छतीति पाठान्तरम्।
For Private and Personal Use Only