________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५४
चरक-संहिता। [भात्रेयभद्रकाप्यीयः तिक्तो रसः स्वयमरोचिष्णुररोचकन्नो विषन्नश्च क्रिमिनो मूर्छादाहकण्डूकुष्ठतृष्णाप्रशमनः त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नो दीपनः पाचनः स्तन्यशोधनो लेखनः क्लदमेदोवसालसीका-पूयस्वेद-मूत्रपुरीष-पित्तश्लेष्मोपशोषणो रुक्षः शोतो लघुश्च ॥ ४६॥
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात् खरविशदस्वभावाञ्च रसरुधिरमांसमेदोऽस्थिमज्जशुक्राणि उपशोषयति स्रोतसां खरत्वमुपपादयति बलमादत्ते कषयति ग्लपयति मोहयति भ्रमयति वदनमुपशोषयत्यन्यांश्च वातजान् विकारानुपजनयति ॥ ५० ॥ हस्ततलम। अग्नेरपि रुक्षोष्णलघुगुणैर्वातगुणसामान्याद् वातबद्ध कलमिति ॥४८॥
गङ्गाधरः-अथ कटुकस्य वायवीयवसामान्यात् तिक्तरसमाह-तिक्तो रस इत्यादि। स्वयं तिक्तो रसो न रोचिष्णुने रोचतेऽथचारोचकं रोग हन्ती. त्यरोचकन्नः। शरीरस्थविषघ्नश्च क्रिमिन्नश्च । मूच्छादिप्रशमनः । वङमांसयोः स्थिरीकरणः स्थैय्यकृत् । लेखनः किनिदिदरणः। क्लेदादिशोषणः। इत्येतानि तिक्तरसद्रव्यस्य कर्माणि गुणाश्च तद् रससमानाधिकरणा सक्षः शीतो लघुश्चेति त्रयः॥४९॥
गङ्गाधरः-स एवमित्यादि। सम्यग्योगाद् एवगणकम्मापि स तिक्तो रसोऽत्यथमेक एव रसान्तरेणासंसृष्टः उपयुज्यमानः रौक्ष्यात् शैक्ष्यसहावस्थानाद बलमादत्ते गृह्णाति । खरविशदस्वभावाच खरविशदसहावस्थानस्वभावाच्च पुनः रसादीन्युपशोषयति। ततश्च स्रोतसां खरखमुपपादयति । बलश्चादत्ते गृह्णाति । कषयति शरीरम् । मोहयति चित्तम् । भ्रमयति गात्रम् । वदनमुपशोषयति । अपि चान्यान् वातजांश्च रोगानुपजनयतीति ।। ५०॥ प्रायो वातविकारभावात् ; अत्र च विपाकप्रभावादिकथनमुदाहरणार्थम्, तेन मधरादिपु विपा
For Private and Personal Use Only