________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः] सूत्रस्थानम् ।
९५३ छिनत्ति मार्गान् विवृणोति श्लेष्माणं शमयति लघुरुष्णो रुक्षश्च ॥४७॥ ___ स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुस्त्वमुपहन्ति रसवीर्यप्रभावात् मोहयति ग्लपयति सादयति कर्षयति मूर्च्छयति नमयति तमति भ्रमयति कण्ठं परिदहति शरीरतापमुपजनयति बलं निणोति तृष्णाञ्चोपजनयति । अपि च वाय्वग्निगुणबाहुल्याद् भ्रममदवमथु-*-कम्पतोदभेदैश्चरणभुजपीलुपृष्ठपार्श्वप्रभृतिषु मारुतजान् विकारानुपजनयति॥४८ बन्धान परस्परसंश्लिष्टान् छिनत्ति विश्लेषं करोति । मागान् विवृणोति स्फटीकरोति। श्लेप्माणं शमयति। इत्येवंका कटुको रसः खलु द्रव्याश्रितः सन् भवति। अस्य समानाधिकरणो गुणश्च लघुरुष्णो रुक्षश्च । इति ॥४७॥.
गङ्गाधरः-एवंगुणकर्मा सम्यगयोगेन कटुको रसोऽत्यर्थयोगेन यथा स्यात् तदाह-स एवंगुण इत्यादि। सम्यग्योगयुक्तस्त्वेवंगणः स कटुको रस एक एव रसान्तरयोगमन्तरेणात्यर्थमुपयुज्यमानः पुस्तमुपहन्ति विपाकप्रभावात्। मोहयति रसवीर्यप्रभावात् कटुरसप्रभावात् रुक्षोष्णप्रभावाच्च । कटुरसस्य कटुविपाकस्तत्प्रभावात् पुस्खोपघाती न तु रसप्रभावाद वीय्येप्रभावाद्वा। कणाशुण्ठ्योहि रसतः कटुवेऽपि विपाकतो माधुर्य्यावृष्यवम् । रसवीर्यप्रभावात् तु सर्वत्रैव द्रव्ये स्थितो मोहयति । सर्वत्रैवं विपाकप्रभावाद दृष्यवावृष्यवमवधाय्यम्। ग्लपयति हर्ष नाशयति। सादयत्यवसादयति । कर्षयति शरीरधातूनपकृष्टान् करोति। मूर्छयति अन्धकारमिव दर्शयंश्चेतो हरति । नमयति गात्राणि। तमयति किञ्चिदग्लानिं जनयति। भ्रमयति शरीरम्। कण्ठं परिदहति । शरीरतापमुपजनयति । बलं क्षिणोति हिनस्ति । अपि च वाय्वग्निगुणवाहुल्यात् कटुको रसः पुनरत्यर्थमेक एवोपयुज्यमानः खलु भ्रमादिभिलिङ्गैश्चरणादिषु मारुतजान रोगानुपजनयति। पीलु
चक्रपाणिः-विपाकस्य प्रभावो विपाकप्रभावः, विपाकश्च कटूनां कटुरेव, रसस्य वीर्यस्य च प्रभावो रसवीर्यप्रभावः ; अयञ्च वक्ष्यमाणे सर्वत्र हेतुः ; चरणादीनां साक्षाद ग्रहणं, तत्रैव * भ्रमदवथुरिति चक्रः।
For Private and Personal Use Only