________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६८
चरक-संहिता। [ भात्रेयभद्काप्यीयः मधुरो लवणालौ च स्निग्धभावात् यो रसाः । वातमूत्रपुरीषाणां प्रायो मोन सुखा मताः ॥ कतिक्तकायाश्च रुक्षभावात् यो रसाः। दुःखाय मोने दृश्यनो वातविणमूत्ररेतलाम् ॥ ६॥ शुक्रहा बद्धविरामूत्रो विधाको वातलः कटुः।
मधुरः स्पृष्टविण मूत्रो विपाकः कमशुक्रलः ॥ चरमपश्यन्तं पच्यमाने पड़सद्रव्ये प्रथममध्यमचरमास्ववस्थासु मधुराम्लकटु रूपाः, ते च वक्ष्यन्ते ग्रहण्यध्याये -“अन्नस्य भुक्तमात्रस्य पडसस्य प्रपाकतः । मधुराख्यात् कफो भावात् फेनभाव उदीय्यते ॥ परन्तु पच्यमानस्य विदग्धस्याम्लभावतः। आशयाच्च्यवमानस्य पितमच्छमुदीय्यते॥ पक्काशयन्तु प्राप्तस्य शोष्यमाणस्य वह्निना। परिपिण्डितपकस्य वायुः स्यात् कफभावतः॥" इत्यादि। एवं पक्कस्याहारस्य प्रसादपाको रसो नाम धातुः। किट्टपाको मूत्रपुरीषकफपित्तवाता इति ।। ५९॥
गङ्गाधरः--अथ विपाकानां प्रभावमुपदेष्टं तत्कारणरसानां प्रभावमाहमधुर इत्यादि। स्निग्धभावादुत्तममध्यमाघमस्निग्धखाद्वातादीनां प्रमोक्षे प्रायः क्रमणोत्तममध्यमाधमरूपेण सुखाः सुखकरा मताः। प्रायःपदेन कपित्थादीनामम्लादिरसा प्राहिणः। कदित्यादि। कटुतिक्तकपायाश्चेनि कपायकटुतिक्तास्त्रयो रसा रुक्षभावादुत्तममध्यमाधमरुक्षवाद्वातादीनां मोक्षे क्रमेणोत्तममध्यभाधमरूपेण दुःखाय दृश्यन्ते । अतिग्राहिणः कषाया मध्यग्राहिणः कटुका अल्पग्राहिणस्तिक्ता इति ॥६०॥ गङ्गाधरः-अत एव विपाकस्य प्रभावमाह ... शुक्रत्यादि। कटुर्विपाकः
चक्रपाणिः-सम्प्रति वक्ष्यमाणविपाफलक्षणे मधुराम्लपाक्योतिमूत्रपुरीपानवरोधकत्वे तथा कटोर्विपाकरय वातमूत्रपुरीपविबन्धकत्वे हेतुमाह--मधुर इत्यादि। अत्र मधुराम्ललवणा विपाकनिष्टाः पाकं गता अपि सन्तः स्नेहगुणयोगात् वातमूत्रपुरीषाणां विसर्ग सुखेन कुर्वन्तीति वाक्यार्थः । तेन मधुराम्लपाकयोरेतत् समानं लक्षणम् ; एवं कटुतिक्तकपायेष्वपि विपर्ययेऽपि वाक्यार्थः ॥६॥
चक्रपाणि:--सम्प्रति विपाफलक्षणं हेतुव्युत्पादितं शुमहत्वादिविशेएयुक्त वक्त माह- शुक्रहा इत्यादि। अतोऽन्यथेति लः ।
For Private and Personal Use Only