________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४८
चरक-संहिता। आत्रेयभद्रकाप्यीय: तेषां षण्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामः। तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांसमेदोऽस्थिमज्जौजःशुक्राभिवर्द्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्नस्तृष्णाप्रशमनः त्वच्यः कण्ठ्यो केश्यः प्रीणनः जीवनस्तर्पणो वृहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो प्राणमुखकण्ठोष्ठजिह्वाप्रह्लादनो दाहमूर्छा
गङ्गाधरः-इत्येवं भौतिकभावेन रसानामधि उभयभागप्रेरणकाष्युक्त्वा यथाद्रव्यं यस्य रसस्याश्रयो यद्रव्यं तद्रव्यस्य गुणकर्माण्यभिप्रेत्य पणां रसानामेकैकस्य रसस्य गुणकर्माण्यनुव्याख्यास्यामः इति प्रतिजानीतेतेषां पण्णामित्यादि। रसानामेकैकस्य गुणकर्माणि खलु तद्रसाश्रयद्रव्यस्य गुणकर्माणि। __ तत्रेत्यादि। तेषु षट्सु रसेषु मध्ये मधुरो रसः श्रेष्ठबादादौ कर्मत उच्यते। शरीरसात्म्यात् शरीररसस्य समानतया शरीरेण सहात्मीभावस्वभावाद्रसादिसप्तधालोजसां वद्धनः। येन रसेन द्रव्यमेतानि वर्द्धयति स रसो रसादिवद्धनः। आयुष्यः प्रभावात्। पड़िन्द्रियप्रसादनः। मनस इन्द्रियखेनाप्रतिषेधादनुमतखादिह पडिन्द्रियेत्युक्तम्। बलवर्णकरः। पित्तविषमारुतघ्नः। तृष्णाप्रशमनः। प्रीणयतीति प्रीणनः प्राणकरः। जीवन इति जीवयतीत्यायुष्यखोक्त्या न पुनरुक्तम् । इह हि मूच्छोद्यभिभूतानां सद्यो जीवनरक्षणं जीबनमायुष्यत्वं कालप्रकणायुषो हितत्वम् । तर्पणस्तृप्तिकरः। क्षीणस्य क्षतस्य च सन्धानं करोति भग्नसंयोगं करोति । घ्राणादीनां प्रहादनः। दाहमूर्छाप्रशमन । षट्पदादीनामिष्टतमः इति (यदुक्तं तन्मूत्रशरीररसपरीक्षार्थम्)
चक्रपाणिः-यथाद्व्यमिति । यद् यस्य रसस्य द्रव्यमाधारस्तदनतिक्रमेण, एतेन रसानां गुणकर्मणी रसाधारव्ये बोद्धव्ये इति दर्शयति । तत्रेत्यादिना मधुर आदावुच्यत्ते प्रशस्तायुष्यादिगुणतया प्रायः प्राणिप्रियतया च ; पडिन्द्रियाणि मनसा समम्, जीवनोऽभिघातादिमूर्छितस्य जीवनः ; आयुप्यस्त्वायुःप्रकर्पकारित्वेन, क्षीणस्य सन्धानकरो धातुपोषकत्वेन, किंवा क्षीणश्चासौ क्षतश्चेति ; तेन क्षीणक्षतस्य उरक्षितं सन्दधाति ; षट्पदाद्यभीर त्वगुणकथनं प्रमहपूर्वरूपादि
For Private and Personal Use Only