________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्याय:
सूत्रस्थानम् ।
६४७ तत्राग्निमारुतात्मका रसाः प्रायेणोड़ भाजः। लाघवात् प्लवनत्वाच्च वायारूर्द्ध ज्वलनत्वाच्चाग्नेः। सलिलपृथिव्यात्मकास्तु प्रायेणाधोभागभाजः पृथिव्या गुरुत्वान्निनगत्वाच्च उदकस्य । व्यामिश्रात्मकाः पुनरुभयतोभागभाजः ॥४०॥
गङ्गाधरः---एवं रसवतां द्रव्याणां पाश्चभौतिकानां मध्ये यत्र द्रव्य वत्तन्तेऽग्निमारुतात्मका रसाः कटुकाः प्रायेणोद्धं भाजः, कस्मात् ? वायोर्लाघवात प्लवनखाच । प्लवते य उपरि उद्गच्छति स प्लवनस्तत्त्वात्, अग्नेश्रोद्ध ज्वलनवाच। प्रायेणेत्युक्त्या कचिद्रव्ये ऊद्ध भाजो न भवन्ति । सलिलेत्यादि। ये च सलिलपृथिव्यात्मका मधुरा रसास्ते तु प्रायेणाधोभाजो विरेचकाः, कस्मात् ? पृथिव्या गुरुवादुदकस्य निम्नगवाच्च । प्रायेणेत्युक्त्या कचिन्नाधोभाजः। व्यामिश्रात्मकाः पुनरम्ललवणा भूम्यग्निभूयिष्ठतोयाग्निभूयिष्ठाः, तिक्तकपाया वाय्वाकाशभूयिष्ठवायुपथिवीभूयिष्ठा उभयभागमाज ऊद्ध भागाधोभागभाजः । एतेन वायोः कम्मे प्लवनं तेजस ऊद्धज्वलनमपां निम्नगमनं पृथिव्याः शनैर्गमन मिति ख्यापितम् । ननु यथा सोमगुणातिरेकान्मधुरः भूम्यग्निगुणबाहुल्यादम्ल इत्येवमादयः षड़सा द्विद्विभूतगुणाधिक्यात् तथान्येऽपि द्विद्विभूतगुणाधिक्यात् सम्भवन्ति रसाः । तद्यथाभूम्यम्बुगुणवाहुल्यादेकः । वाय्वम्बुगुणवाहुल्यादेकः । तोयाकाशबाहुल्यादेकः । वह्नयाकाशबाहुल्यादेकः। भूम्याकाशवाहुल्यादेकः। भूमिवायुबाहुल्यादेकः । इत्येवं रसाः पड्भ्योऽधिकाः कथं न भवन्ति ? अत्रोच्यते-भावस्वभावनित्यखान्मधुरादयः षड़ेव रसास्तथाभूतद्विद्विभूतगुणाधिक्याद्भवन्ति। न खन्यथा द्विद्वित्रित्रिचतुश्चतुर्भूतगुणाधिक्ये । इति ।। ४०॥ .
वायू” इत्यादि, तथापि वीजाङ्क रकार्यकारणभाववत् संसारानादितयैव भूतविशेष ऋत्वोः कार्यकारणभावो वाच्यः ॥ ३९ ॥
चक्रपाणिः-भूतविशेषकृतं रसानां धर्मान्तरमाह-तत्रेत्यादि। प्रायेणेति न सर्वे, रसा इति रसयुक्तानि द्रव्याणि ; प्लवनत्वादिति गतिमत्त्वात्, यद्यपि गतिरधोऽपि स्यात्, तथापि लघुत्वपरिगतिरिह वायोरूद्ध मेव गममं करोति, यथा-शाल्मलीतूलानाम् । हेत्वन्तरमाह- उद्धज्वल नत्वाचाग्नेरिति, अग्नेरप्ट द्ध गतिस्वादित्यर्थः ; निम्नगत्वमधोगत्वमेव ॥ ४०॥
For Private and Personal Use Only