________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः सूत्रस्थानम्।
१४६ प्रशमनः षटपदपिपीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च ॥४१॥
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यमाईवालस्यातिस्वनगौरवम् अनन्नाभिलाषम् अग्निदौर्बल्यमास्यकण्ठयोमांसाभिवृद्धिम्, तथा श्वासकासप्रतिश्यायालसकविसूचिका-शीतज्वरानाहास्य-माधुर्य-वमथु-संज्ञा-स्वर-प्रणाशगलगण्डगण्डमाला-श्लीपद-गलशोथ-वस्तिधमनी-गलोपलेपाच्यामयाभियन्दान् इत्येवंप्रभृतीन् कफजान् व्याधीन् आपादयति ॥४२॥ अम्लो रसो भक्तं रोचयति अग्निं दीपयति देहं वृति
कर्माणि । गुणास्तु-स्निग्धः शीतो गुरुश्चेति । मधुररससमानाधिकरणाः स्निग्धादयस्त्रयो गुणा रसादिवद्धनादीनि च कर्माणि । तेन मधुररसद्रव्यगणा ये ते गुणाः कम्पाणि चतानि विद्यात् ॥४१॥
गङ्गाधरः-अस्यातियोगे दोपानाह–स एवंगुण इत्यादि। एवमुक्ता गुणा गुणकर्माणि यस्य स एवंगुणोऽपि मधुरो रसोऽत्यथेमुपयुज्यमान एक एव स्थौल्यादीन कफजान् व्याधीन् आपादयति। न तु सम्यगयोगेनायोगेन मिथ्यायोगेन वा, नवा अन्यरससहातिमात्रयोगेण। आस्यकण्ठयोमांसाभिवृद्धिम् । शीतज्वरः शीतयुक्तज्वरः। संज्ञाखरयोः प्रणाशः। गलशोथो गले उत्सेधमात्रं गलशुण्ड्यादिकं न तु गलगण्डः। वस्त्यादुरपलेपः । अक्ष्यामया अक्षिरोगाः। अभिष्यन्दो मुखनासादिस्रावो न तु नेत्राभिष्यन्दो नान रोगविशेषोऽक्ष्यामयवचनेन तस्योक्तखादिति ॥४२॥
गङ्गाधरः-प्रहादसाधात् हृदयतर्पणमम्लरसं कर्मगुणाभ्यामाह-अम्लो ज्ञानोपयुक्तं, यदुक्तम् “मूत्रेऽभिधावन्ति पिपीलिकाश्च” इति, तथा रिष्टे वक्ष्यति-"मक्षिकाकान्तम्" इति, अनेन च मधुरत्वं ज्ञायते ; अक्ष्यामयेनैवाभिष्यन्दे लब्धे विशेषोपादानार्थ पुनर्वचनं, किंवा, अभिष्यन्दो नासादिष्वपि ज्ञेयः ॥ ४॥४२॥
चक्रपाणिः- हृदर तर्पयतीति हृद्यो भवति, मुक्तमपकर यतीति सारयति, क्लेदयति तथा
For Private and Personal Use Only