SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः सूत्रस्थानम् । ६४५ भूयिष्ठत्वात् कटुकः । वाय्वाकाशातिरिक्तत्वात् तिक्तकः । चाम्ले द्रव्येऽग्निगुणवाहुल्ये जलभूम्योः साम्पेनोभयरसादम्लः। लवणे द्रव्ये. ऽप्यनिगुणबाहुल्ये भूमिगततोयभूतगुणरसबाहुल्यादुदकरसस्याल्पखे लवणः स्यादिति भेदः। अत एवापामल्पवाद्वक्ष्यते। उष्णानामुष्णखाल्लवणः परो मध्योऽम्लः कटुकश्चान्त्य इति । अम्लो द्विधोदकस्याधिक्यादग्निगुणस्य तत्समखान्मध्योष्ण इति। वाय्वग्निभूयिष्ठखात् कटुक इति। रसस्य योनिरुदकं तस्माद् भूम्याकाशन्यूनोदकमध्यवाय्वग्निगुणवाहुल्यादुदकभूमिगतरसः सौम्योदकप्रीयमाणो विक्रियमाणोऽल्पोष्णवीय्यत्वेन कटुक उत्पद्यते। मुश्रुतेऽप्येवमुक्तम् । वाय्वाकाशातिरिक्तखात् तिक्तक इति। रसस्य योनिरुदकम् इत्युक्तम् । तस्माद् यस्यां पाञ्चभौतिक्यां मूत्तौ तदारम्भकाणां पञ्चानां भूतानां द्वं तेजोभूमी न्यने उदकं मध्यमं वाय्वाकाशौ बहुलौ तस्यां जायमानायां सौम्योदकप्रीयमाण उदकस्याव्यक्तो रसो विक्रियमाणोऽभिव्यज्यते तिक्तक एव। सुश्र तेऽप्येवमुक्तम् । पवनपृथिव्यतिरेकात कषाय इति। अत्रापि रसस्य योनिरुदकमिति। यस्यां मूत्तौ पञ्चभिभूतैरारभ्यमाणायां सौम्योदकप्रीयमाणायाम् आकाशतेजसी न्यूने मध्यममुदकं पवनपृथिव्यावतिरिक्त तस्यां जायमानायां तदुदकभूमिगतो रसो विक्रियमाणोऽभिव्यज्यते कपाय एव । सुश्रुतेऽप्येवमुक्त मिति । एतेन वाह्य तोयाग्नियोगाल्लोष्ट्राग्नियोगाच्चाम्ल. लवणभावोपपत्तिनिरस्ता आरम्भाभावात् सौम्योदकपीणनाभावाच्च। ___ अथैवमन्तरीक्षप्रभवसौम्योदकस्य रसाभिव्यक्ती यद हेतुखमुक्तं तन्न गर्भ बालकशरीरस्य रसोत्पत्तौ । तत्र मातुराहारगतमुदकं कारणम् । अनयैव रीत्या व्याख्ययम्। विषादिप्वव्यक्तरसाभिनित्तौ तथाणुरसाभिव्यक्तौ चैतया रीत्या भूतानां न्यूनाधिकतया संयोगे तदुदकस्य रसो हेतुरुन्नेयः। यथा प्राधान्येनाने पके मधुरो जायते सोमगुणातिरेकात् तथाम्लोऽपि न्यूनांशभूम्यग्निगुणबाहुल्यादल्पो जायत इति। समानरूपेण षट्सु रसेषु जायमानेषु मेलनाद विषादावव्यक्तरूपेण वर्तन्ते पड़ रसा न तु षड्भ्योऽतिरिक्त उक्तः । अव्यक्तीभावस्तु खलु रसानां प्रकृती भवति । अणुरसेऽणुरससमन्विते वा द्रव्ये इति । यत्र सोमगुणातिरेकान्मधुरो जायते तत्र चेन्न्यूनखेन भूम्यनिगुणवाहुल्यं तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्पद्यन्त इति, तदपि भूतस्वभावापर्यनुयोगादेव प्रत्युक्तम् ; इह च कारणत्वं भूतानां रसस्य मधुरत्वादिविशेष एव निमित्तकारणत्वम् For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy