________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४४
चरक-संहिता। [ भात्रेयभद्रकाप्यीयः भूयिष्ठरवादम्लः। तोयाग्निभूयिष्ठत्वाल्लवणः । वाय्वग्निसौम्ययोगुणाधिक्यादुदकभूमिस्थाद्रसाद्विक्रियमाणादभिव्यज्यते । प्राक्चाभिहितं-"रसनार्थों रसस्तस्य द्रव्यमापः क्षितिस्तथा” इति जलभूम्यो रसानां यानिलेनोक्त्या तयोर्द्व योराधिक्ये शेषाणां त्रयाणां योगे. मधुर एवाभिव्यज्यते। सुश्रते चोक्तं-पृथिव्यम्धुगुणबाहुल्यान्मधुर इति। भूम्यग्निभूयिष्ठखादम्ल इति। या मूत्तिभूम्यग्निबहुलपञ्चभूतारभ्यमाणा सौम्योदकप्रीयमाणा भवति तत्र भूमिस्थानामपामेवाधिक्यादुदकस्य भूतस्याल्पखाच्छेषभूतयोगात् तदल्पोदकाधिक भूम्या रसाद्विक्रियमाणादम्लो रसो नाम विशेषोऽभिनिवत्तते। इति। सुश्र ते तु-तोयाग्निगुणबाहुल्यादम्ल इत्युक्तम् । तत्र तोयं भूम्यनुप्रविष्टमभिप्रेतं न तु तोयाख्यं भूतम् । अथवा रसस्योदकं योनिरित्यभिप्रेत्य सव्वत्रोदकं भूतं ग्राह्यमिति। भूम्यम्बुनोभूतयोयत्तोयगुणो रसोऽव्यक्तस्तस्याग्निगुणयोगेनाम्लीभावात्। न्यूनांशेन खादियोगाद्विशेषोऽम्लो रसोऽभिव्यज्यते। इति न विरोधः। तोयाग्निगुणभूयिष्ठखाल्लवण इति। तोयभूतं तेजोभूतञ्च यत्र बहुलं शेपास्त्रयो न्यूनास्तत्र मूत्तौ सौम्योदकप्रीयमाणायां पाश्चभौतिक्यां तोयगुणोऽव्यक्तोऽधिकस्तथाग्निगुणोऽधिकः शेषाणामल्पो गुण इति तोयगुणोऽव्यक्तरसोऽग्निगुणाधिकयोगात् लवणभावमापद्यमानोऽभिव्यज्यते। सुश्रुते तु पृथिव्यग्निगुणबाहुल्याल्लवण इत्युक्तम्। तत्रापि रसस्य योनिरुदकम् । तस्यापि भूमावनुपविष्टस्य गुणो योऽव्यक्तो 'रसः स एवारम्भकाणां शेषाणामब्वाय्वाकाशानां न्यूनत्वेनाग्निगुणस्याधिक्येन विक्रियमाणो लवणलेनाभिव्यज्यते। इति न विरोधः। तथा क्वचित् कस्यचिद भूतगुणस्यातिरेकात् रसविशेषो भवतीति दर्शयति, एतच्च मधुरं प्रति अवगुणातिरिक्तत्वं विशेषोत्पत्तौ कारणत्वेन ज्ञेयम् ; यच्चाधारकारणत्वमपा, तत् सर्वसाधारणम् । एवं लवणेऽप्यपां कारणत्वं ज्ञेयम् ; लवणस्तु सुश्रुते पृथिव्यतिरेकात् पठितः, अस्मिंश्च विरोधे कार्यविरोधो नास्त्येव । ननु, उष्णशीताभ्यामग्निसलिलाभ्यां कृतस्य लवणस्याप्युष्णशीतस्वेन भवितव्यम्, तल्लवणं कथमुष्णं स्यात् ? नैवम् ; यतः भूतानामयं स्वभावः-यत् केनचित् प्रकारेण सान्नविधानि कञ्चिद् गुणमारभन्ते, न सर्वम् ; यथा-मुकुष्ठकेऽनिर्मधुरो रसः क्रियते, न स्नेहः ; तथा सैन्धवे वह्निनापि नोष्णत्वमारभ्यते ; अयञ्च भूतानां सन्निवेशोऽदृष्टप्रभावकृत एव, स च सन्निवेशः कार्यदर्शनोन्नेयः ; तेन यत्र कार्य दृश्यते, तत्र कल्प्यते, यथा-लवणे उष्णत्वादग्निर्विष्यन्दित्वाच्च जलमनुमीयते ; आगमवेदनीयश्चायमर्थो नास्मद्विधानां कल्पनाः प्रसरन्ति । एतेन यदुच्यते--तोयवत् पृथिव्यादयोऽपि क्रिमिति पृथग रसान्तरं न कुर्वन्ति, तथा
For Private and Personal Use Only