SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः सूत्रस्थानम् । सौम्याः खल्वापोऽन्तरीक्षप्रभवाः प्रकृतिशीता लध्व्यश्च अव्यक्तरसास्वन्तरीक्षाद भ्रश्यमानाः। भ्रष्टाश्च पञ्चमहाभूतविकारगुणसमन्वितजङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति। तासु च मूत्तिषु षडभिमूच्छन्ति रसाः। तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः। भूम्यग्नि गङ्गाधरः- तद्यथा पञ्चभूतप्रभवत्वमादावाह-सौम्या इत्यादि । सोमश्चन्द्रमास्तस्येमा इति सोम्याः। आपः खल्वन्तरीक्षप्रभवा आकाशादाद्यप्रकाशाः प्रकृत्या स्वभावेन शीताः। लघ्व्यश्च प्रकृत्यैव गुरुखनिबन्धनतौलव्यवहारे यतो यतो यद यद्गुरु ततस्ततस्तत्तद यल्लघु भवति तोलन्यवहारे तथाविधालयोऽन्त्या अपकृष्टगुरुखवत्यः। न तु वायुतेजोवल्लघ्व्य इति । एतदभिप्रायेण केचिजले गुरुत्वम् आहुः। अव्यक्तरसाः पण्णां रसानां साम्येन मेलनाद. यथाभूतो रसः स्यात् तथाभूताव्यक्तरसाः। ईदृशाः सौम्या आपोऽन्तरीक्षात सोममण्डलात प्रच्युता आकाशाद भ्रश्यमानास्ततः क्रमेण भ्रष्टा भूमावपतन्त्य एवान्तरीक्षे स्थिताः पञ्चमहाभूतगुणविकारगुणसमन्विताः। तत्काले पञ्चमहाभूतानां विकारभूता एतदाकाशपवनाकेचन्द्रास्तथा सततमाकाशे समुड्डीय. माना भौमास्त्रसरेणवस्तपां गुणगुरुवादिसमन्विताः सत्यस्तदयोगानां सेन्द्रियाणां प्राणिनां मनुष्यादीनां स्थावराणाञ्च वृक्षादीनां मूर्तीरभि. प्रीणयन्ति। तासु च जङ्गमस्थावराणां मूत्तिषु ताभिरद्भिः प्रीयमाणासु ताभ्य एवाद्भाः षड्रसा अभिमूच्छन्ति व्यक्तीभावमापद्यन्ते। कथमिति ? अत उच्यते तेषामित्यादि। तेपां पण्णां रसानां मध्ये मधुरो रसः सोमभूतगुणातिरेकात् पञ्चमहाभूतगुणसमवाये सोम्योदकमीणने सति जलभूम्योः पञ्चभूतप्रभवाः सन्तो यथोक्त न प्रकारेण “सोमगुणातिरेकाद.” इत्यादिना संख्याताः पटसंख्यापरिच्छिन्ना भवन्ति, तथा वक्ष्यामीति योजना ॥ ३८॥ ___ चक्रपाणिः-सम्प्रति रसानामादिकारणमेव तावदाह-सौम्या इत्यादि। सौम्याः सोमः देवताकाः ; भ्रश्यमाना इति वदता भूमिसम्बन्धव्यतिरेकेणान्तरीक्षेरितः पृथिव्यादिभिः परमाण्वादिभिः सम्बन्धो रसारम्भको भवतीति दयते ; मूर्तीरिति व्यक्तीः, अभिप्रीणयन्तीति तर्पयन्ति, किंवा जनयन्ति ; अभिमूर्च्छन्ति रसा इति व्यक्ति यान्ति ; अत्र चान्तरीक्षमुदकं रसकारणत्वे प्रधानत्वादुक्तम्, तेन क्षितिस्थमपि स्थावरजङ्गमोत्पत्तौ रसकारणं भवत्येव । सोमगुणातिरेकादिति अतिरेकशब्देन सर्वेष्वेव रसेपु सर्वभूतस्य सान्निध्यमस्ति, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy