________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
चरक-संहिता। [ आत्रेयभद्रकाप्यीयः अतश्च प्रकृति* बुद्धा देशकालान्तराणि च। तन्त्रकर्तुरभिप्रायानुपायांश्चार्थमादिशेत् ॥ ३७॥ षड् विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम् ।
षट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः ॥ ३८ ॥ कार्यगुणान् तद्रसाश्रयद्रव्यगुणान् विद्यात्। ननु किमर्थमेवमुपदेश्यन्ति रसांस्तत्तद्रव्याणां तांस्तान् गुणान् रसांश्च तांस्तान पृथक् पृथगेवोपदेष्टु नेच्छेदिति ? अत उच्यते-करभिप्रायाः पृथग्विधाः। इति । यो यत्तत्रस्य कर्ता तस्य तस्याभिप्रायाः पृथक पृथकप्रकारा भवन्ति न खेकप्रकाराः। यो हि यथाकरणे तत्रस्य सुरचनां बुध्येत स तथा रचनां करोति। तस्मात् तत्रस्य प्रकृति प्रथममुपक्रमे या प्रकृतिर्भवति तां प्रकृति प्रकरणं यद्देशान्तरे यत्कालान्तरे तत्तन्त्रोपढेशस्तद्देशान्तरं कालान्तरञ्च बुद्धा ततस्तत्तत्रकत्तु रभिप्रायानुपायांश्च तत्रयुक्ती बुद्धा तन्त्रस्यार्थ व्याख्याता बुध आदिशेत् । इति । तस्मादस्य तन्त्रस्य कत्तु रेवमेवाभिप्रायो बोध्यः। रसगुणोपदेशेन द्रव्यगुणा उपदेश्यन्ते। इति। तथैव चोपदेक्ष्यमाणे रसे प्रतिज्ञाते पाक तच्चैव कारणमवेक्षमाणाः षणां रसानां परस्परेणासंसृष्टानां लक्षणं पृथक्वमुपदेश्याम इति ॥३७॥
गङ्गाधरः-तदुपदेष्टुमाह-पडित्यादि। रसानां विभक्तीविभागान षट् प्रवक्ष्यामि। यथा च पञ्चभूतप्रभवा: पट रसाः सङ्खयाताः तत्प्रकारांश्च प्रवक्ष्यामि। इति ॥३८॥
अभिप्रायपृथक्त्वे सति यथा ग्रन्थो बोद्धव्यस्तदाह-अतश्चेत्यादि। तत्र प्रकृतं बुद्धा यथा-"क्षाराः क्षीरं फलं पुष्पम्" इत्यत्र उद्भिदगणरय प्रकृतत्वात् 'क्षीरम्" इति स्नुह्यादिक्षीरमेव क्षीरशब्देन वदेत् ; देशान्तरं बुद्धति यथा-शिरसि शोधनेऽभिधीयमाने "क्रिमिव्याधौ इति, तत् शिरोगतक्रिमियाधावेव भवति ; कालान्तरे यथा-वमनकालेऽभिहितं "प्रतिग्रहांश्चोपहारयेद इति, तत्र प्रतिग्रहशब्देन पात्रमुच्यते, न तु ग्रहणं प्रतिग्रहः ; तन्त्रकतुरभिप्रायानिति यथोक्त रसेषु गुणारोपणे तद बोडव्यम् ; उपायानिति शास्त्रोपायान तन्त्रयुक्तिरूपान् इति ; अर्थमभिधेयम ; यद्यपि प्रकृतादयोऽपि तन्त्रकर्तुंरभिप्राया एव, तथापि यत्र प्रकृतत्वादि न स्फुटं प्रतं यते, तत्र तन्त्रकत्तुरभिप्रायत्वेन बोद्धव्यम् ॥ ३७॥ चक्रपाणिः-पड़ विभक्तीरिति। मधुरादिषड् विभागानित्यर्थः ; षट् पञ्चभूतप्रभवा इति * प्रकृतमिति चक्रः।
For Private and Personal Use Only