________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३८
चरक-संहिता। [ आत्रेयभद्रकाप्यीयः परिमाणं पुनर्मानं संस्कारः करणं मतम् ।
भावाभ्यसनमभ्यासः शीलनं सततक्रिया ॥ अनेन पृथक्त्वाद्भदः। योगाद् विगमो वियोगो वियुक्तिर्भागशो ग्रह इति विभिन्नो भागः। द्वन्द्वकम्मेजो यथा-युध्यमानयोः मेपयोरन्योन्यापसरणं वियोगः। सव्वेकम्मैजो यथा-पीड्यमानानां तिलानां संयोगोत्तरं वियोगः पुनयोगः इत्येवमादिः। एककम्मेजो यथा-वृक्षं त्यजति खग इत्यादि । इति । गुणानां कम्मणां गुणकम्मेणोद्रेव्यगुणयोद्रेव्यकम्मेणोश्च न विभागः स्याद द्रव्याणामित्युक्तः।
अथ पृथक्वम् । “पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता।" असंयोग इति संयोगविपरीतो द्रव्याणां विभागः, एष खसंयोगः सम्यग्योगाभावः संयोगसमवायविपरीतः। यथा मेषयोः संयोगात् पृथक्तयोविभागः सम्यग्योगरहितः । न हि संयोगविभागयोः सम्यगयोगोऽस्तीति पृथगुच्यते। संयोगात् पृथगविभागः विभागात् पृथक् संयोगः । तयोश्च वैलक्षण्यं भेदः । तयोश्चानेकता च वर्तते । इति । त्रिविधं पार्थक्यमयोगो भेदोऽनेकखमिति द्रव्यगुणकर्मसु वत्तते । भेदमात्रमभिप्रेत्य कणादेनोक्तं-“पृथगन्यदित्यनान्तरमिति । पृथक्त्वस्य पृथक्त्वैकखाभावः । यथा द्रव्यगुणकर्मणां मेलकः समवायेन तस्य तेषु समवायः स्व. रूपेण वर्तनात् तथा रूपादिभ्यः पृथक् पृथक्वमिति पृथक्वे पृथत्त्वस्वरूपेण वत्तेनान पृथक्त्वस्य पृथक्त्वमिति। अनेकखस्वरूपादेकत्वञ्च जास्ति। द्विग्रादिनिष्ठं ह्यनेकखं सदैवानेकं न कदाप्येकं भवतीत्येकखाभावः पृथक्त्वस्य ।
अथ परिमाणं--परिमाणं नाम पुनर्मानमिति । मीयतेऽनेनेति मानं पञ्चपृथकत्वन्तु इदं द्रव्यं पटलक्षणं घटात् पृथगित्यादिका बुद्धिर्यतो भवति, तत् पृथक्त्वं स्यात् ; तच्चाचार्यस्त्रैविध्येनाह-पृथक्त्वमित्यादि। तत्र यत् सर्वथाऽसंयुज्यमानयोरिव मेरुहिमाचलयोः पृथव त्वम्, एतदसंयोग इत्यनेनोक्तम् ; तथा संयुज्यमानानामपि पृथकत्वं विजातीयानां महिपधराहादीनां, तदाह-लक्षष्यमिति, विशिष्टलक्षणयुक्तरवेन लक्षितं विजातीयानां पृथक्त्वमित्यर्थः । तथैकजातीयानामप्यविलक्षणानां माषाणां पृथक्त्वं भवतीत्याह ----अनेकतेति । एकजातीयेषु हि संयुक्तषु न वैलक्षघ्नं नाप्यसंगोगः, अथ चानेकता पृथकत्वरूपा भवतांति भावः ; किंवा पृथक्त्वं गुणान्तरमिच्छन् लोकव्यवहारार्थमसंयोगवैलक्षण्यानेकतारूपमेव ।
यथोदाहृतं पृथक्त्वं दर्शयति मानं प्रस्थानकादि सुलादिमेयम्। करणं गुणान्तराधायकत्वं संस्करणमित्यर्थः, यद वक्ष्यति-"संस्कारो हि गुणान्तराधानमुच्यते”। भावस्य
For Private and Personal Use Only