SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः सूत्रस्थानम् । ६३७ विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः। पृथकत्वं स्यादसंयोगो वैलक्षण्यमनेकता॥ पृथक्त्वमेकस्येति। यतः पृथगन्यदित्यनान्तरमित्युक्त कणादेन । तथा चैकखातिरिक्ता सङ्ख्यासु वत्तेते सङ्ख्या। तथा च पाणिनीयसूत्रं “संख्ययाव्ययदुरासन्नाधिकसङ्ख्याः संख्येये।” इति बहुव्रीहो सङ्ख प्रयेऽर्थे गम्येऽव्ययादयः संख्यया सह समस्यन्ते । इति । द्वौ त्रयो येषां ते द्वित्राः, षड् गावः, पञ्चषास्त्रिंशद्धटाः। त्रिपश्चारे पीठे इति त्रयः पञ्च आराणि कोणाः यस्य पीठस्य तत् त्रिपञ्चारं पीठम् । पञ्चदशकोणं पीठमिति । लक्षाणां पञ्च लेभे चेत्यादयः प्रयोगा दृश्यन्ते। सहस्राणां दशैव तु । तस्मादा दशभ्यः संख्याः संख्येये ततः परं सङ्ख्याः संख्येये सङ्ख्याने चेति प्रमादिभिरुक्तं तदयुक्त मिति । अथ संयोगः। द्रव्याणां द्वन्द्वसव्वककम्मेजः सहयोगोऽव्यवधानेन मेलनं संयोग उच्यते। स चानित्य एव च । न तु गुणानां कर्मणां न वा गुणकम्मेणोः काभावात्। न च द्रव्यगुणयोद्रव्यकम्मेणोर्वा तदेकस्य कम्मेसद्भावे तद्यावृत्त्यर्थं द्रव्याणामिति । ततः समवायादस्य भेदः। समवायो हि द्रव्यगुणकम्मणां सहयोग उक्तः। द्रव्याणां द्वन्द्वस्य कर्मजः सर्वेषां संयोगाभिजातानां कर्मजः। एकस्य कर्मजः सहयोगो नैकस्य सम्भवतीति द्विवहूनां द्रव्याणां सहयोगः। द्वन्द्वकर्मजो यथा-योधमानयोमेषयोः सहयोगः। सर्वकर्मजो यथा यन्त्रे पीडामानानां तिलानां सर्वेषां सहयोगः समकालम् । उत्तरकाले सहयोगस्तु संयोगजः संयोगो न प्रकृतिभूतः संयोगः । एकद्रव्यकम्मैजो यथा-वृक्षपक्षिणोः सहयोगः। स च खल्वनित्य एव न तु नित्यः कम्मंजवात् । यस्तु विदेशादागतस्य सुहद्भिः संयोगः स नैष संयोगः व्यवधानात् परन्तु योजना नाम युक्तिगुणः। संयोगविभागयोश्च संयोगविभागाभावः सुतरां द्रव्यखाभावात् । ___ अथ विभागः। विभागस्तु विभक्तिर्द्रव्याणां द्वन्द्वसव्वंककमजोऽनित्य एव चेति योजना। तस्य पर्यायो वियोगो भागशो ग्रहश्च । द्रव्याणामिति विभागमाह-विभागरित्वत्यादि। विभक्तिर्विभजनम् । विभक्तिमेव विवृणोति-वियोग इति ; संयोगस्य विगमो वियोगः ; तत् किं संयोगाभाक एव वियोग इत्याह-भागशो ग्रह इति, भागशो विभक्तत्वेन ग्रहणं ततो भवतीति भावः, तेन विभक्तिरित्येषा भावरूपा प्रतीतिः, न संयोगाभावमात्रं स्यात्, किं तर्हि, भावरूपविभागगुणयुक्त इत्यर्थः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy