________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३२
चरक-संहिता। [ आत्रेयभद्रकाप्यायः संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा। रसानां तत्र योग्यत्वात् कल्पिता रसचिन्तकैः ॥ २६ ॥ क्वचिदेको रसः कल्प्यः संयुक्ताश्व रसाः क्वचित् । दोषौषधादीन् संचिन्त्य भिषजा सिद्धिमिच्छता ॥ ३० ॥ द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान् बुधाः । रसानेकैकशो वापि कल्पयन्ति गदान प्रति ॥ ३१॥
गङ्गाधरः-संयोगा इत्यादि। तेषु त्रिषष्टिविधेषु मध्ये सप्तपञ्चाशद्रससंयोगाद् द्वित्रिचतुःपञ्चषड़साः। पृथक् पट् चेति त्रिपष्टिया कल्पना। तत्र योग्यखाद्रसानां वातादिकल्पना रसचिन्तकैः कल्पिता ॥२९॥
गङ्गाधरः-कथमिति चेत् ? तदोच्यते-कचिदित्यादि। कचिदोषौषधा. दीन् सञ्चिन्त्यावेक्ष्यावेक्ष्य तदेकदोपजादौ व्याधौ तदोषव्याधिविपरीत एको रसः कल्प्यः स्यात् सिद्धि मिच्छता। कचित् संयुक्तदोषादी व्याधौ दोषौषधादीन् सञ्चिन्त्य तद्विदोषत्रिदोषन्पुनाधिकादिभावमवेक्ष्य संयुक्तास्तत्तदोषव्याधिविपरीताः संयुक्तरसाः कल्प्याः स्युः सिद्धि मिच्छता भिपना ॥३०॥
गङ्गाधरः-कस्मात् ? तत आह--द्रव्याणीत्यादि। यतो गदान प्रति बुधा बैद्या द्विरसादीनि द्रव्याणि संयुक्तांश्च द्विरसादीन रसान् एकैकशो वापि रसान् कल्पयन्ति ।। ३१॥
चक्रपाणिः-एवमसंख्येयत्वेऽपि विपरिविधैव कल्पना चिकित्साव्यवहारार्थमिहाचाय्यः कल्पिता इत्याह-संयोगा इत्यादि। तत्र योग्यत्वादिति,-तत्र स्वस्थातुरहितचिकित्साप्रयोगेऽनतिसपविस्तररूपतया हितत्वादित्यर्थः ॥ २९॥
चक्रपाणिः-तमेव चिकित्साप्रयोगमाह -क्वचिदित्यादि। अत्रादिग्रहणाद् देशकालबलादीनां ग्रहणम् । एतदेव संयुक्तासंयुक्तरसकल्पनं भिन्नरसद्रव्यमेलकाद्वानेकरसैकद्रव्यप्रयोगादेकरसद्रव्यप्रयोगाद वा भवतीति दर्शयन्नाह-द्रव्याणीत्यादि। द्विरसादीन्युत्पत्तिसिद्धद्विरसत्रिरसादीनि-द्विरसं यथा--कषाय-मधुरो मुद्गः ; त्रिरसं यथा ---"मधुराम्लकषायञ्च विम्भिगुरुशीतलम् । पित्तश्लेष्महरं भव्यम् इत्यादि ; चतूरसस्तिलः, यदुक्तम्-"स्निग्धोष्णमधुरस्तिक्तः कषायः कटु कस्तिलः।” पञ्चरसन्त्वामलकं हरीतकी च "शिवा पञ्चरसा" इत्यादिवचनात् ; व्यक्तषसन्तु द्रव्यमिहानुक्तम् ; विषन्त्वव्यक्तपडससंयुक्तम् ; हारीते तु-एणमांसं
For Private and Personal Use Only