________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्याय:]
सूत्रस्थानम् । युज्यते तु कषायण सतिक्तौ लवणोषणौ । षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात् ॥ षट् चैवैकरसानि स्युरेकं पडू समेव च । इति त्रिषष्टिव्याणां निर्दिष्टा रससंख्यया ॥ त्रिषष्टिः स्यादसंखोया रसानुरसकल्पनात् । रसास्तरतमाभ्यां तां * संख्यापतिपतन्ति हि ॥ २८॥
द्रव्याणि दश पञ्च चेति । पट लियादि। पञ्चरसानि द्रव्याणि षट् खलु पण्णां रसानामेकैकस्य रसस्यापज्जनादाहुः! तद्यथा --मधुरामललवणकटुतिक्तः अम्ललवणकटु तितकपायः लवणकटुतितकपायमधुरः कटुतिक्तकषायमधुराम्लः तिक्तवपायमधुरामललवणः कपायाधुरामललवणकटुः। इति पञ्चरसानि द्रव्याणि षट् ।
षट् चेत्यादि। एकरसानि द्रव्याणि पड़ भवन्ति । मधुरमम्लं लवणं कटुकं तिक्तकं कषायमिति एडेकरसद्रयाणि। एकं पड़समेव च द्रव्यम् । मधुरामललवणकटुतिक्तकपायम् । इत्येवं त्रिषष्टिवियरसयोगात् त्रिपष्टिभेंदा द्रव्याणां भवन्तीति । उपसंहरति-इतीत्यादि। रसानुरसकल्पनादसंख्येया रसाः स्युः, हि यस्मात् तरतमाभ्यां ते रसाः संख्यापतिपतन्ति ॥२८॥
सहितौ शेषाभ्यां योगाद् द्वे, तथाम्ललवणो तिक्तयुक्ती शेपयोगादेकम् ; अम्लटू तथेत्यनेनाम्ल. कटुतिक्तरूपायरूपमेकं ; युज्येते वित्यादिना चैकम् ; एवं पञ्चदश चतूरसानि । अपवर्जनादिति त्यागात् । अत्र च रसानां गुणत्वेनैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते ।
रससंसर्गस्य प्रकारान्तरेणापरिसंखेयतामाह-त्रिषष्टिः स्यादित्यादि। अनुरसोऽने वक्ष्यमाणः। अत्र च त्रिपथ्यात्मकरसे रसानुरसकल्पना नास्त केवलस्य मधुरादेरपवर्जनात्, तेन यथासम्भवं सप्तपञ्चाशत्संयोगविशेष रसानां रसफल्पनं ज्ञेयम् : किंवा एकरसेऽप्यनुरसोऽस्त्येवाव्यपदेश्यः । प्रकारान्तरेणाप्यसंख्येपतामाह-रसास्तरतमाभ्यस्ताः संख्यामित्यादि। मधुरमधुरतरमधुरतमादिभेदादसंख्येयता रसानां भवतीति भावः ; किंवा, रसानुरसत्वेनैव यासंख्येयता, तत्रैवायं हेतुः - रसास्तरतमेत्यादिः ॥ २८ ॥
* रसास्तरतमाभ्यस्ताः इति पाठान्तरम् ।
For Private and Personal Use Only