________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३०
चरक-संहिता। {आत्रेयभद्रकाप्यीयः खाद्वम्लौ सहितौ रक्तौ लवणाद्यः पृथग्गतैः । योगं शेषैः पृथगयातश्चतुष्करससं यया ॥ सहितौ स्वादुलवणौ तद्वत् कटादिभिः पृथक् । युक्तौ शेषः पृथग्योग यातः स्वादूषणो तथा ॥ कट्टायरललवणो संयुक्तौ सहितौ पृथक । यातः शेषैः पृथर योग शेषेरलकटू तथा ॥ अथ चतुष्केण रसेन दश पञ्च च द्रव्याणि वक्ष्यन्ते, तद्यथा-वाद्वम्लावित्यादि। स्वाद्वम्लो सहितौ मिलितो सन्तो द्वौ रसौ पृथगगतैलेवणायः लवणकटुतिक्तकपाययुक्तो पुनः शेषः कतिक्तकपायैरेकैकशो योगं यातश्चतुष्करससंख्यया पड् द्रव्याणि भवन्ति। तद्यथा-मधुरामललवणकटुः मधुराम्ललवण तिक्तः मधुरामललवणकपायः मधुराम्लकटुतिक्तः मधुराम्ल. कटुकपायो मधुराम्लतिक्तकायश्चेति षट्। सहितावित्यादि। सहितौ मिलितो स्वादुलवणो द्वौ रसौ तद्वत् पूर्ववम् कदादिभिः पृथगेकैकेन युक्तौ सन्तौ पुनः शेषैस्तिक्तादिभिः पृथगेककेन योगं यातः प्राप्नुतश्चतुष्करससंख्यया त्रीणि द्रव्याणि भवन्ति। तदयथा-मधुरलवणकटुतिक्तः मधुरलवणकटुकपायः मधुरलवणतिक्तकपायः। इति त्रीणि। स्वादूपणौ तथेति। मधुरकटुतितकपाय इत्येकं चतुष्करससंख्यया द्रव्यमिति चतुष्करसद्रव्याणि दश मधुरादिकानि । कटाद्य रम्ललवणाविति । अम्ललवणो द्वौ रसो मिलितो. कट्टायः पृथक् एकैकशो युक्तौ सन्तौ शेषैस्तिक्तादारेकको योगं यात इति चतुष्करससंख्यया त्रीणि द्रव्याणि भवन्ति। यथा--अम्ललवणकदतिक्तः अम्ललवणकटुकषायः अम्ललवणतिक्तकपाय इति त्रीणि। शेषरम्लकटू तथा युज्यते इति । अम्ल. कटुतिक्तकपाय इत्येकम् । एवं युज्यते तु कपायेण सतिक्तो लवणोषणौ। इति लवणकटुतिक्तकपाय इत्येकमिनि पञ्च च। इत्येवं चतुष्करससंख्यया
चतूरसे स्वादम्लादिस्थितौ लवणादिभिरेकै कश्येन युक्तौ शेषैः कटादिभिर्योगात् षड़ भवान्त ; स्वादुलवणी सहितावादिस्थिती, कटादिभिरिति कटुतिक्ताभ्यां पृथगयुक्तौ ; शेपैरिति तिक्तकषायाभ्याम्, तेन इह बहुवचनं जाती बोद्धव्यम्, एवं त्राणि ; एवं स्वादूपणौ तथेत्यनेन स्वादकटुकतिक्तकपायरूपमेकम् ; कटायै रित्यादावपि बहुवचनं जाती, अम्ललवणी संयुक्तौ कटुना
For Private and Personal Use Only