________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ] सूत्रस्थानम् ।
६.२६ पृथगम्लादियुक्तस्य योगः शेषः पृथग्भवेत् । मधुरस्य तथाम्लस्य लवणस्य कटोस्तथा ॥ त्रिरसानि यथासंखा द्रव्याण्युक्तानि विंशतिः।
वक्ष्यन्ते च चतुष्केण द्रव्याणि दश पञ्च च ॥ एकैकशो योगं यान्ति। ततो द्विरसानि पञ्च भवन्ति। मधुराम्लो मधुरलवणो मधुरकटुको मधुरतिक्तो मधुरकषायश्चेति । अम्लादयः पञ्च चैकैकशो रसाः शेषश्चतुत्रिय कैः सह योगं यान्ति। ततो द्विरसानि द्रव्याणि दश भवन्ति । तद्यथा-अम्ललवणोऽम्लकटुकोऽम्लतिक्तोऽम्लकषायश्चेति चखारः। लवणकटको लवणतिक्तो लवणकपाय इति त्रयः। कटुतिक्तः कटकषाय इति द्वौ। तिक्तकषाय इत्येकः। इति दश पूर्वः पञ्चभिः सह पञ्चदश द्विरसद्रव्याणि । - त्रिरसान्याह-पृथगित्यादि। पृथगम्लादियुक्तस्य मधुरस्य शेषलेवणादिभिश्चतुर्भिः पृथग योगश्चतुब्बिंधः । मधुरामललवणो मधुरामलकटुको मधुराम्लतिक्तको मधुरामलकपायश्चेति । आदिना.मधुरस्य लवणादियुक्तस्य शेषैः कटादिभियोग इति । यथा-मधुरलवणकटकः मधुरलवणतिक्तः मधुरलवणकषायः। . मधुरकटुतिक्तः मधुरकटुकपायः। मधुरतिक्तकषायः। इति मधुरयोगाद् दश । तथाम्लस्य पृथगलवणादियुक्तस्य शेषैः कदादिभिः पृथगयोगः स्यादिति। यथा -अम्ललवणकटुकः अम्ललवणतिक्तः अम्ललवणकषायः। अम्लकटुतिक्तः अम्लकटुकषायः। अम्लतिक्तकपायः। इति अम्लस्य योगात् षट् । तथा लवणस्य पृथकटादियुक्तस्य शेषैस्तिक्तकषायाभ्यां योगो भवेत । यथा--लवण. कदतिक्तः लवणकटुकषायः लवणतिक्तकपायः। इति त्रयः। कटोस्तथा तिक्तयुक्तस्य शेषेण कषायेण योगो भवेदिति। कतिक्तकषाय इत्येकः । इति दश। इति विंशतिद्रव्याणि त्रिरसानि यथासंख्यमुक्तानि ।
त्रिरसमाह-पृथगित्यादि। मधुरस्याम्लादिरसचतुथ्येन पृथगित्येकशी युक्तस्य शेषै. लवणादिभिर्योगो भवति । तत्र मधुरस्याम्लयुक्तस्य शेषलवणादियोगाच्चत्वारि, तथा मधुरस्य लबणयुक्तस्य कटादियोगात् त्रीणि, तथा कटुकयुक्तस्य तिक्तादियोगाद् द्व, तथा तिक्तयुक्तस्य कषाययोगादेकम्, एवं मधुरेणादिस्थितेन दश। एवमम्लस्यादिस्थितस्य लवणयुक्तस्य कदादियोगात् त्रीणि, तथा कटुकयुक्तस्य शेषाभ्यां योगाद् द्वे', एवं तिक्तयुक्तस्य कषाययोगादेकं, एवमम्लस्य षट । अनेनैव न्यायेन लवणस्य त्रीणि, कटोश्चैकमेव ; एवं मिलित्वा त्रिरसानि विंशतिः ।
For Private and Personal Use Only